________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४१४
उपसंहारः
'ज्ञानं' यथार्थस्वपरावबोधः तस्य सारं चारित्रं वैराग्यं तस्य 'गरि ठता' गरिमा गुरुत्वं तत्स्वरूपमचित्यं दुर्विचारं अन्या गुरुता अधोगमनहेतुः ज्ञानगुरुत्वं ऊर्व्वताहेतुः अत एवाचिंत्यमिति यया गरिष्ठतया ऊर्ध्वगतिरेव स्यात् अधःपातः कदापि न भवति । ऊर्ध्वता द्रव्यतः जीवेभ्य उच्चत्वगोत्रोदयादिरूपा, क्षेत्रतः ऊर्ध्वलोकगमनरूपा, भावतः सम्यक्त्वाद्युत्तरोत्तरगुणादौ रोहणरूपा, तेन यो ज्ञानगरिष्टः स ऊर्ध्वत्वं स्वर्गापवर्गलक्षणं सम्यक्चारिऋदिगुणलक्षणं प्राप्नोति ॥ ८ ॥
पुनः ज्ञानक्रियाभ्यां मोक्षः, न ह्येकस्यापि विरोधकः साधको भवति, क्रिया हि वीर्यविशोधिरूपा, ज्ञानं च चेतनाविशोधिरूपं चेतनावीर्ययोः शोधिप्राप्तयोः एव सर्वसंवरा तथापि क्रियातः ज्ञानस्याधिक्यं दर्शयति
शक्षयो हि मंडूक - चूर्णतुल्यः क्रियाकृतः । दग्धतच्चूर्णसदृशो, ज्ञानसारकृतः पुनः ॥ ९ ॥
0
व्या० - शक्षय इति । हीति निश्चितं 'क्रियाकृतः ' क्रियोद्यमविहितः क्लेशक्षयः कर्मक्षयः मंडूकचूर्णतुल्यः ज्ञेयः, यथा मंडूकचूर्णः पुनः घनयोगतः तत्रानेकाभिनवमंडूकोत्पत्तिहेतुर्भवति, तथा - क्रियया अशुभकर्म क्षयति तथापि शुभानां प्रचुरा वृद्धिः, पुनः शुभोपयोगकाले अशुभानां वृद्धिः इति ज्ञेयं । पुरा पूर्व ज्ञानसारकृतः कर्मक्षयः दग्धतच्चूर्णसदृशः इति इत्यनेन ज्ञानानंदकृतः कर्मक्षयः पुनः न प्रभवति, यथा- मंडूकचूर्णः दग्वो न मंडूकोत्पत्तिहेतुर्भवति, एतदुपदेशपदात्सर्वं ज्ञेयं, आगमेऽपि - "सीले सेयं सुअं सेयं" इत्यालापकेन । तथा पंचनिग्रंथशतके -
२२६
For Private And Personal Use Only