SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३९८ तपोऽष्टकम् - नयानां व्याख्या तु - नामतपः स्थापनातपः सुगमं, द्रव्यतपः आहारत्यागादि, भावतपः आत्मस्वरूपैकाग्रत्वरूपं, अत्र द्रव्यपूर्वकभावतपोग्रहणमिति । ज्ञानमेव बुधाः प्राहुः, कर्मणां तापनात्तपः । तदाभ्यन्तरमेवेष्टं, बाह्यं तदुपबृंहकम् ॥ १ ॥ व्या० - ज्ञानमेवेति । बुधाः पंडिताः 'कर्मणां ' आत्मप्रदेशसंश्लिटानां तापनात तीक्ष्णं ज्ञानं एव तपः प्राहुः, तत्तपः आभ्यंतरं अंतरंगं प्रायश्चित्तादिकं इष्टं बाह्यं अनशनादिकं तदुपवृंहकं आभ्यंतरतपोवृद्धिहेतु, द्रव्यनिक्षेपस्य कारणरूपत्वात्, द्रव्यतपसोऽपि भावतपसः कारणत्वमेव तेन इष्टं ॥ १ ॥ आनुश्रोतसिकी वृत्ति - बलानां सुखशीलता । प्रातिश्रोतसिकी वृत्तिर्ज्ञानिनां परमं तपः ॥ २ ॥ व्या० - आनुश्रोतसिकीति — संसारप्रवाहपद्धतिः अनादि प्रवृत्तिः आनुश्रोतसिकी वृत्तिः बालानां मूढानां 'सुखशीलता' इंद्रियसुखमग्नता, सुखाभिलाषता 'प्रातिश्रोतसिकी' प्रवाहसंभुखता, संसारसंमुखत्वमपहाय संसारपराङ्मुखी प्रवृत्तिः तदेव परमं तपः ज्ञानिनामुक्तमिति, आत्मधर्मानुगसंसारप्रतिकूलप्रवृत्तिस्तप उच्यते, इत्यनेन प्रायश्चित्तादिभावतपः परिणामः स्वरूपतन्मयत्वं तत्तपसा एव सकलकर्मक्षयः ॥ २ ॥ धनार्थिनां यथा नास्ति, शीततापादि दुस्सहम् । तथा भवविरक्तानां तत्त्वज्ञानार्थिनामपि ॥ ३ ॥ व्या० - धनार्थिनामिति । यथा धनार्थिनां शीततापादि दुस्सहं नास्ति, धनोपार्जनकुशलाः शीतादिकं सर्वमपि क्षमंते, तथा २१० For Private And Personal Use Only
SR No.008661
Book TitleShrimad Devchandra Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages1084
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Worship
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy