SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परिग्रहाष्टकम्. व्याख्या-न परावर्त्तते इति 'राशेः' अनादिराशितः परिग्रहो न 'परावर्तते' न निवर्त्तते, पुनः वक्रतां 'जातु' 'कदाचित्' न 'उज्झति, न 'त्यजति, अत एव हे आत्मार्थिन् अयं दुःखमूलः परिग्रहग्रहकः विडंबितजगत्रयः त्रैलोक्यविडंबनाहेतुः इहक् परिग्रहस्य दृढानुराग इति ॥१॥ परिग्रहग्रहावेशाद्, दुर्भाषितरजाकिराः। श्रूयन्ते विकृताः किं न? प्रलापा लिङ्गिनामपि ॥२॥ व्याख्या-परिग्रहेति 'लिंगिनामपि जैनटेषविडंबकानामपि 'प्रलापाः' असंबद्धव्यसनव्यूहाः किं न श्रूयन्ते अपि तु श्रूयंतेएव । कथंभूताः प्रलापाः ? परिग्रहावेशात् परिग्रहस्य ग्रहः 'मन्यत्वं तस्यावेशः, तस्मात् 'दुर्भाषितं' उत्सूत्रवचनं एव रजसः 'किराः' समूहाः, अत एव विकृताः विकारमया इति, एवं हि परिग्रहामिलाषमया ज्ञानपूजनाथुपदेशेन परिग्रहमेलनासक्ताः उत्सूत्रं वदंति, पोषयंति विषयान्, परिग्रहीकुवैति ज्ञानोपकरणानि, महांतयंति ज्ञानोपकरणैः । उक्तं च उपमितिभव प्रपंचायाम् । "सजातः कदाचिल्लब्धार्यकुलश्रावकसामग्रीसंयोगः श्रुततत्त्वोपदेशाप्तवैराग्यगृहीतव्रतः मुनिसंघसंयुतः श्रुतलामेन संपूज्यमानः श्रावकवगैः ज्ञानभक्तोपरचितोल्लोचादिसदुपकरणः तैरेव रमणीयकताममत्वाहंकारदूषितः तीवज्ञानावरणीयकर्मवशात् पतितो निगोदे अनंतभवभ्रमणरूपे, इत्यावर्तस्वरूपं भावनीयमात्महिताय सद्भिः, अतः निवारणीयमेव धर्मलिंगविषयपरिग्रहपोषणादिकम् ॥ २ ॥ यस्त्यक्त्वा तृणवबाह्यमान्तरं च परिग्रहम् । उदास्ते तत्पदाम्भोज, पर्युपास्ते जगत्रयी ॥३॥ For Private And Personal Use Only
SR No.008661
Book TitleShrimad Devchandra Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages1084
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Worship
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy