________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञानमंजरी टीका.
३६५
व्या० - शास्त्रे पुर इति - तस्मात्कारणात् 'शास्त्रे' सिद्धांते 'पुरस्कृते' मुख्ये कृते ' वीतरागः अर्हन् 'पुरस्कृतः' अग्रेसरीकृतः, पुनः तस्मिन् वीतरागे पुरस्कृते 'नियमात् ' निश्चयात् सर्वसिद्धयः भवंति । उक्तं च ।
अस्मिन् हृदयस्थे तिष्ठति ततो मुनीन्द्र इति । हृदयस्थिते च तस्मिन्, नियमात्सर्वार्थसिद्धिः ॥ १ ॥ पुनः आगमे—
आगमं आयरंतेण, अत्तणो हियकंखिणो । तित्थनाहो सयंबुद्धो, सव्वे ते बहुमन्निया ।। १ ।। अतः आगमादरी अर्हन् मुनिः संवादरवान् इति ॥ ४॥ अदृष्टार्थे तु धावन्तः, शास्त्रदीपं विना जडाः । प्राप्नुवन्ति परं खेदं प्रस्खलन्तः पदे पदे ॥ ५॥
"
व्या० - अदृष्टेति - जडाः मूर्खा, 'शास्त्रदीपं विना आगमप्रकाशं विना 'अदृष्टे' अनुपलब्धे 'अ' कार्ये संवरनिर्जरामोक्षामिधाने 'धावंतः ' पदे पदे प्रस्खलंतः स्खलनां प्राप्नुवंतः 'परं' प्रकृष्टं 'खेदं' क्लेशं प्राप्नुवंति लभंते, अज्ञातशुद्धमार्गा अनेकोपायप्रवृत्ता अपि स्खलनां लभते इति ॥ ५ ॥ शुद्धोञ्छाद्यपि शास्त्राज्ञा, निरपेक्षस्य नो हितम् । भौतहन्तुर्यथा तस्य, पदस्पर्शनिवारणम् ॥ ६ ॥
व्या० - शुद्धोञ्छाद्यपि - 'शास्त्राज्ञा निरपेक्षस्य' आगमोक्ताज्ञारहितस्य शुद्धोञ्छाद्यपि द्वाचत्वारिंशद्दोषरहिताहारग्राहकस्यापि नो 'हितं' न सुखं, यथा भौतहंतुः तस्य स्वगुरोः पदस्पर्श
१७७
For Private And Personal Use Only