SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज्ञानमंजरी टीका. commam व्या-आलस चालान किमपि ____ व्या०-आत्मेति-हे उत्तम 'आत्मसाक्षिकः' आत्मा एव साक्षिकं आत्मसाक्षिकः, स चासौ 'सत्' शोभनः धर्मः, तस्य 'सिद्धौ' निष्पत्तौ लोकयात्रया किं ? न किमपि, लोकानां ज्ञापनेन किमित्यर्थः, तत्र प्रसन्नचंद्रः चपुनः भरत इति निदर्शनं दृष्टांतः सति द्रव्यलिंगे कायोत्सर्गे प्रसन्नचंद्रस्य नरकगतिबंधः, असति लिंगे मोहकलाकेलिभूतवनितान्यू हपरिवृतोऽपि भरतः संप्राप्तात्मसाक्षिकत्वैकत्वरूपधर्मपरिणतः केवलं प्राप, इति आत्मसाक्षिको धर्म-धर्म इति दृष्टांतः, अतः आत्मसाक्षिक एव धर्मः करणीय इति ॥७॥ लोकसंज्ञोज्झितः साधुः, परब्रह्मसमाधिमान् । सुखमास्ते गतद्रोह-ममतामत्सरज्वरः॥८॥ ___व्या०- लोकेति-'सावु' परमात्मसाधनोद्यतः, सुखं 'आस्ते' तिष्ठति, कथंभूतः साधुः ? 'लोकसंज्ञोज्झितः' लोकसंज्ञारहितः, पुनः किंभूतः ? परब्रह्मणः शुद्धात्मस्वरूपस्य 'समाधिः स्वास्थ्यं. तद्वान् तन्मयः, आत्मज्ञानानंदमग्नः पुनः कथंभूतः ? 'गतः' नष्टः 'द्रोहः । मोषणशीलो ममता परभावेषुममकारता, 'मत्सरः ' अहंकारः एव ज्वरः तापो यस्य स, इत्यनेन कषायकालुष्यरहितः स्वात्मारामः' स्वात्मज्ञानी तत्त्वानुभवयुक्तो मुनिः सुखं तिष्ठति । लोकसंज्ञात्यागेन स्वरूपयोगभोगसुमना निग्रंथा औदयिकं इंदियसुखं दह्यमानस्वगृहप्रकाशवद् मन्यते न सुखमस्ति ॥८॥ इति व्याख्यातं लोकसंज्ञात्यागाष्टकम् ॥ २३ ॥ For Private And Personal Use Only
SR No.008661
Book TitleShrimad Devchandra Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages1084
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Worship
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy