SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज्ञानमजेरी टीका. त्वत्तः सुदुःप्रापमिदं मनासं, रखत्रयं भूरिभवग्रमेण । प्रमादनिद्रावशतो गतं तत्कस्याग्रतो नायक! पूत्करोमि॥१॥ वैराग्यरङ्गः परवञ्चनाय, धर्मोपदेशो जनरञ्जनाय । वादाय विद्याध्ययनं च मेऽभूत्किंयद् ब्रुवे हास्यकरं स्वमीश ॥२॥ लोकसंज्ञामहानद्यामनुस्रोतोनुगा न के। प्रतिस्रोतोऽनुगस्त्वेको, राजहंसो महामुनिः॥३॥ व्या०-लोकसंज्ञेति-'लोकसंज्ञा' लोकरीतिरूपा महानदी, तस्याः ‘अनुस्रोतः' प्रवाहः तस्य 'अनुगाः' अनुयायिनः के न भवंति ? अनेके इत्यर्थः तत्र प्रतिस्रोतानुगः सन्मुखप्रवाहचारीतु एक एव महामुनिः शुद्धश्रमणः राजहंसनामा इति, तेन लोकरूढिरूढा बहवो जीवाः . निग्रंथः स्फुरद्रत्नत्रयसाधनोद्यतः स एव स्वरूपानुगामी । उक्तं च दशवैकालिके। आसो वा बहुजणंमि, पडिसोयलद्धलरकेणं । पडिसोयमेव अप्पा, दायबो होउ कामेण ॥ १ ॥ अणुसोयसुहो लोगो, पडिसोओ आसमो सुविहयाणं । अणुसोउ संसारो, पडिसोउ तस्सउत्तारो ॥ २ ॥ तेन मुनिर्लोकसंज्ञानुयायी न स्यात् ॥ ३ ॥ लोकमालम्ब्य कर्तव्यं, कृतं बहुभिरेव चेत् । तदा मिथ्यादृशां धर्मो, न त्याज्यः स्यात्कदाचन ॥४॥ लोकमिति-चेत् यदि यत् बहुभिः कृतं तत् कर्त्तव्यं लोकं आलंब्य एवं क्रियते तदा मिथ्यादृशां धर्मः कदाचन कदापि न त्याज्यः स्यात्, तच्च बहुभिः क्रियमाणत्वात् स्वेच्छाचरणो १७१ For Private And Personal Use Only
SR No.008661
Book TitleShrimad Devchandra Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages1084
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Worship
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy