SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज्ञानमंजरी टीका. २९५ च यथार्थचिंतनं भावना च, स्वसंपद्विमुक्तेन पृथ्वीकायस्कंधा संपद्रूपेण उपचरिता न च ते संपत्, तथा जीवः ज्ञानदर्शनवीर्यसुखरूपैः भावप्राणैरेव जीवति । आयुर्जीवनं तु बाह्यप्राणसंबंधस्थितिहेतुतया तन्नात्मस्वरूपं तथा वर्णगंधरसस्पर्शाचेतनशरीरोपचयश्च न स्वरूपं, तदपि अस्थिर, इत्येवं अस्थिरपरभावे स्वात्मधर्मप्रध्वंसके कः प्रतिबंधः ?, तदर्थं च स्वगुणान् चेतनावीर्यादीन् कः परभावग्रहणोन्मुखान् करोति ? । अत आत्मनि आत्मगुणप्रवृत्तिरेव करणीया ॥३॥ शुचीन्यप्यशुचीकर्तुं, समर्थेऽशुचिसंभवे । देहे जलादिना शौच-भ्रमो मूढस्य दारुणः ॥४॥ शुचीन्यपीति-'मूढस्य' अज्ञस्य यथार्थापरयोगरहितस्य देहेंद्रियायतने 'जलादिना' पानीयमृत्तिकादिसंगेन शौचभ्रमः श्रोत्रियादीनां । ..:.' भयकृत, यश्च जात्याशुचिः स किं जलव्यूहैः शुवीभवति ?, कथंभूते देहे ?-शुचीन्यपि-कर्पूरादीन्यपि 'अशुचीकर्तुं समर्थे, देहसंगात् मलयजविलेपनादयोऽप्यशुचीभवंति, पुनः कथंभूते देहे ? 'अशुचिसंभवे' अशुचि आर्तवं मातुः रक्तं पितुः शुक्रं, तेन संभवः उत्पत्तिः यस्य स तस्मिन् । उक्तं च भवभावनायां सुकं पिउणो माउऍ, सोणियं तदुभयपि संसठं । तप्पढमाए जीवो, आहारइ तत्थ उप्पन्नो ॥१॥ यूकाइसुणयभक्के, किमिकुलवासे य वाहिखित्ते य । देहम्मि अवधुविहुरे, सुसाणत्थाणे य पडिबंधो ॥ २ ॥ अतः अस्थिरे अपवित्रे औपाधिके अभिनवबंधकारणे द्रव्यभावाधिकरणे कः संस्कारः ॥ ४ ॥ For Private And Personal Use Only
SR No.008661
Book TitleShrimad Devchandra Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages1084
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Worship
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy