SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज्ञानमंजरा टाका. rommmmmmmmmmmm क्षमश्रिमणैः अत एवं आत्मा जीवकत्तीरूपः आत्ममा आत्ममयज्ञानवीर्येण करणमूतेनं आत्मानं अनंतास्तित्व-वस्तुत्व-द्रव्यत्वसत्त्व-प्रमेयत्व-सिद्धत्वधर्मकदंबोपेत कार्यत्वापन्ने आत्मनि आधारभूते अस्तित्वाधनंतधर्मपर्यायपात्रभूते जानाति सा इयं जानातिरूपा प्रवृत्तिः सा एव रत्नत्रये सम्यग्दर्शनज्ञानचारित्रलक्षणे ज्ञप्तिः रुचिः आचारः भासननिराचाररूपः एतेषां एकता अभेदपरिणतिः मुनेः अस्ति इत्यनेन आत्मना आत्मानं ज्ञात्वा तद्रुचिः तदाचरणं मुनेः स्वरूपं । भावना च मिथ्यात्वाज्ञानासंयमैकत्वेन पौद्गलिकसुखं सुखत्वेन निर्धार्य ज्ञात्वा च तदाचरणवृत्तस्यानंतकालं तत्वानवबोधेन दाघज्वरपरिगत इव मृत्तिकालेप इवावगुंठितः कर्मपुद्गलैः न चोपलब्धः तत्त्वज्ञानज्ञानरमणानुभवलवोऽपि तेनैव निसर्गाधिगमादिकारणेन अनादिनिधनोऽयं जीवोऽनंतज्ञानादिपर्यायालिप्तामूर्तस्वभावोऽवगतः निर्धारितश्च साध्योऽहं, साधकोऽहं, सिझोऽहं, ज्ञानदर्शनाद्यनंतगुणमयोऽहं इति ज्ञप्तिरुचि आचरणरूपं मुनिस्वरूपं । उक्तं च-- आत्मानमात्मना वेत्ति, मोहत्यागाद् यदात्मनि । तदेव तस्य चारित्रं, तज् ज्ञानं तच्च दर्शनम् ॥ १ ॥ पुनः हरिभद्रपूज्यैः षोडशकेबालः पश्यति लिंग, मध्यमवृत्तिर्विचारयति वृत्तम् । .. आगमतत्त्वं तु बुधः, परीक्षते सर्वयत्नेन ॥ १ ॥ अतः तत्वैकत्वं चारित्रम् ॥२॥ पुनस्तदेव द्रढयति । चारित्रमात्मचरणाद्, ज्ञानं वा दर्शनं मुनेः। शुद्धज्ञाननये साध्यः, क्रियालाभात् क्रियानये ॥३॥ ९७ For Private And Personal Use Only
SR No.008661
Book TitleShrimad Devchandra Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages1084
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Worship
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy