SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २७२ निपाष्टकम् संसारे निवसन् स्वार्थ-सजः कज्जलवेश्मनि । लिप्यते निखिलो लोको, ज्ञानसिद्धो न लिप्यते॥१॥ व्या०-संसार इति-निखिलः समस्तो लोकः कज्जलवेश्मनि रागादिपापस्थानविभावतन्निमित्तीमूतधनस्वजनादिगृहे संसारे निवसमानः, स्वार्थसज्जः स्वस्य आरोपात्मना कृतः अर्थः अहंकारममकारादिरूपः स्वार्थः तत्र सज्जः सावधानो लिप्यते रागादिभावकर्मामिष्वंगतः समस्तात्मीयक्षयोपशमाभावपरानुगतः सर्वसत्तावरकत्वेन भावकर्मद्रव्यकर्मनोकर्मलेपर्लिप्यते । तथा ज्ञानसिद्धः हेयोपादेयपरीक्षापरीक्षितसर्वभावः स्वात्मनि स्वात्मा अन्यत्र परत्वोपयुक्तः स्वात्मारामी स्वरूपविलासी न लिप्यते. विविधकर्मोपचयैर्नावगुंठ्यते अतः आत्मधर्मावभासनतदुपादेयतया यतितव्यमित्युपदेशः ॥ १ ॥ नाऽहं पुद्गलभावानां, कर्ता कारयितापि च । नानुमन्तापि चेत्यात्म-ज्ञानवान् लिप्यते कथम् ?॥२॥ व्या०-नाहमिति--इति अमुना प्रकारेण यथार्थावभासनेन भेदज्ञानविभिन्नात्मस्वरूप आत्मज्ञानवान् कथं लिप्यते ? नैवेति, इति किं ? अहं विमलकेवलालोकमयः, स्वकीयपरिणामिकपर्यायोत्पादकत्वव्ययत्वध्रुवत्वज्ञायकत्वभोक्तृत्वरमणत्वादिभावानां कर्ता पुद्गलभावानां द्रव्यकर्मनोकर्महिंसादिपापव्यापाराणां योगप्रवृत्तेश्च कर्ता न नैव पुद्गलग्रहणमोचनरूपं मम कार्य वर्णादीनां ग्रहणास्कंदनानां नहि कर्ता च पुनः पुद्गलभावानां पूर्वोक्तानां अहं कारयिता परस्मात् कारयतीति कारयिता न च पुनः न अनुमंता पौद्गलिकवर्णादीनां शुमानां नानुमोदनशीलः अह For Private And Personal Use Only
SR No.008661
Book TitleShrimad Devchandra Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages1084
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Worship
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy