SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 34 Acharya Shri Kailassagarsuri Gyanmandir ज्ञानमंजरी टीका. पीत्वा व्या० - पीत्वा इति- मुनिः सावद्याभाषी स्वात्मावलोकनलीनः परां उत्कृष्टां लौकिककुप्रावचनिकेतरां तृप्तिं संतोषावस्थां याति प्राप्नोति लभते इत्यर्थः, किं कृत्वा ? ज्ञानामृतं ज्ञानं यथार्थस्वपरपदार्थस्वरूपावभासनरूपं तदेवामृतं पीत्वा शुद्धात्यंतावच्छिन्नचिद्धारा परीक्षित हे यो पादे यवस्त्ववलोकनोपयोगं क्रिया सद्योगप्रवृत्तिः तच्चप्राग्भावविभावाभावभावितचेतना श्रद्धा तत्पूर्विका या वीर्यप्रवृत्तिः सा एव सुरलता कल्पवल्ली तस्याः फलं स्थिरत्वेन स्वानुभवलक्षणं भुक्त्वा साम्यं शमता शुभाशुभेषु पुद्गलादिषु तुल्यत्वं तदेव तांबूलं स्वादिमोपना मानमास्वाद्य मुनिः परां उत्कृष्टशं तृप्तिं याति इत्यन्वयः । सांसारिकोपाधिपुगोद्भवविभावभावितात्मनोऽनादि मिथ्यात्वाज्ञानासत्क्रियारक्तद्विष्टतासक्तस्य जगदुच्छिष्टाभोग्यवर्णाद्यनुभवमग्नत्वेन या आरोपजा तृप्तिः न सा तृप्तिः, यतः तत्प्राप्तावपि तृष्णा प्रगुणीभवति तेन न तृप्तिः सततानंदभोगेनैव तृप्तिः, अत एव सत्पुरुषाः त्यजति दामिनीचलान् कामिनीविलासान्, हीलयंति उदयागतान् सद्विपाकानू, निःसंगयंति रंगामिष्वंगि संगसंगान्, विरंगयंति अंगरागान्, विशंति स्वाध्यायाध्ययनेन तव श्रवणमनननिदिध्यासनपरिशीलनेषु, धन्यं मन्यते परमावस्थां इति ॥ १ ॥ २६५ पुनरपि नित्यां तृप्तिं व्याख्यातुमाह-स्वगुणैरेव तृप्तिश्चेदाकालमविनश्वरी । ज्ञानिनो विषयैः किन्तैयैर्भवेत्तृतिरित्वरी ॥ २ ॥ व्या० स्वगुणैरिति चेत यदि स्वगुणैः चैतन्यस्य स्वद्रव्यस्वक्षेत्रस्वकालस्वभावभूतैः अमूर्त्तासंगानाकुलचिदानंदरूपैः एव अन्ययोगव्यवच्छेदार्थः, तृप्तिः ज्ञानिनः सम्यगवबुद्धतत्वस्य तैः ७७ For Private And Personal Use Only
SR No.008661
Book TitleShrimad Devchandra Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages1084
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Worship
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy