________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५६
त्यागाष्टकम.
-
-
वस्तुतस्तु गुणैः पूर्णमनन्तैर्भासते स्वतः । रूपं त्यक्तात्मनः साधोनिरभ्रस्य विधोरिव ॥ ८॥ ____ व्या०-वस्तुत इति-वस्तुतः पदार्थमूलस्वरूपेण, शुद्ध आत्मा स्वतः स्वस्वभावेन अनंतैः गुणैः पूर्ण भासते सम्यग्ज्ञानदर्श नचारित्रतपोरूपेण साधनपरिणमनेन अनादिसङ्गिभावपरित्यागेन स्वरूपभासनरमणानुभवनेन अमिनवकर्माग्रहणस्वरूपैकत्वतन्मयध्यानतः पूर्वकर्मक्षरणेन अयं आत्मा शुद्धः सकलपुद्गलोपाधिरहितो यदा भवति तदा ज्ञानदर्शनचारित्रवीर्यागुरुलघुअव्याबाधासंगामूर्तपरमदानलाभभोगोपभोगाक्रियसिद्धत्वादि-अनं. तैस्त्वसंख्येयप्रदेशव्यापकैः गुणैः पूर्ण भासते राजते इत्यर्थः किमिव त्यक्तात्मनः त्यक्तं परभावे आत्मत्वं येन स तस्य त्यक्तात्मनः साधोः मोक्षपदसाधकस्य रूपं निरमस्य मेघपटलरहितस्य विधोः चंद्रस्य इव रूपं भासते, यथा अमहीनं चंद्रस्य रूपं भासते यथा अग्रहीनं चंद्रस्वरूपं निर्मलं भवति तथा ज्ञानावरणाद्यप्ररहितस्य शुद्धात्मनः स्वरूपं निर्मलं भवति, अत एव बाधकपरिणतिहेतुतां संत्यज्य साधकत्वमवलंब्य साधकत्वेऽपि विकल्परूपार्वाचीनापवादसाधनां त्यजन् उत्सर्गसाधनां गृह्णन पुनः त्यजन् पूर्णगुणावस्थां श्रयन् एवं अनुक्रमेण आत्मा सकलसंसर्गभावनिरावरणेन निर्मलनिःकलंकासंगसर्वावरणरहितः सच्चिदानंदरूप
आत्मा अत्यंतकांतिकनिबंध (द्वंद्व) निःप्रयासनिरुपमचरितसुखपूर्णो भवति, अतः सम्यग्ज्ञानबलेन हेयोपादेयविवेचनं कृत्वा समस्तहेयभावत्यागवत्तया भवितव्यं, त्यागो हि निर्जरामूलं, परभावग्रहणमेवात्माऽहितं अतः त्यागः करणीय एव आत्मस्वरूपाभिलाषुकैः ॥८॥
इति व्याख्यातं त्यागाष्टकम् ॥ ८॥
For Private And Personal Use Only