SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज्ञानमंजरी टीका. मिथ्यात्वस्योदये क्षीणे सति स बीच उक्तेन प्रकारेण औपशमिकं सम्यक्त्वं लभते यस्य सम्यक्त्वस्य लाभेन यझत्महितमलब्धपूर्वमहदादितत्त्वप्रतिपत्त्यादि तल्लभते । तथाहि सम्यक्त्वलामे सति जात्यंधस्य पुंसः चक्षुर्लाभे सति एवं जंतोः यथावस्थितवस्तुतत्त्वावलो को भवति, महाव्याध्यमिभूतस्य व्याध्यपगमे इव महांश्च प्रमोदः । अत्र अनिवृत्तिकरणे क्रियमाणे यदि पुंजत्रयं करोति तदा प्रथमं क्षयोपशमं सम्यक्त्वं लभते. अकृतत्रिपुंजः प्रथम उपशमसम्यक्त्वं लभते इति सिद्धांताशयः । कार्मग्रंथमते तु प्रथम उपशममेव लभते अयं च त्रिपुंजीकरण उपशमे करोति इति ग्रंथिमिद् ज्ञानं तत्त्वोपयोगलक्षणं तस्य अन्यविकल्पैः किम् ? ॥ ६ ॥ मिथ्यात्वशैलपक्षच्छिद्, ज्ञानदंभोलिशोभितः । निभर्यः शक्रवद् योगी, नन्दत्यानन्दनन्दने ॥७॥ ____व्या०-मिथ्यात्वेति भोगी' स्नत्रयरूपमोक्षोपायी आनंदमंदने आनंदः आत्मानंदः स एब बंदनं आनंदनंदनं तस्मिन् आनंदनंदने, नंदति क्रीडां करोति, किंवत् ? शक्रवत् इंद्रवत् कथंभूतो योगी ? 'मिथ्यात्वशैलपक्षच्छिद् ज्ञानदंभोलिशोभितः' मिथ्यात्वं विपर्यासरूपं तदेव शैलः पर्वतः तस्य पक्षच्छेदनकृत पद् ज्ञानं तदेव दंभोलिः तेन शोभितः, इत्यनेन मिथ्यात्वमैदकज्ञानवज्रान्वितः सम्यग्दर्शनज्ञानचारित्रपरिणतो योगी आनंदनंदने नंदति शुद्धात्मानंदने नंदति ॥ ७ ॥ पीयूषमसमुद्रोत्थं, रसायनमनौषधम् । अनन्यापेक्षमैश्वर्य, ज्ञानमाहुर्मनीषिणः ॥८॥ 30 For Private And Personal Use Only
SR No.008661
Book TitleShrimad Devchandra Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages1084
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Worship
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy