SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज्ञानमंजरी टीका. २२९ संख्येयभागन्यूनं करोति, ततः अन्यं पल्योपमासंख्येयभागं न्यूनं करोति अतः अन्य स्थितिबंधपूर्वपूर्वापेक्षया पल्योपमासंख्येयभागं न्यूनं करोति, अशुभानां च प्रकृतीनां बध्यमानानामनुभागं द्विस्थानकं बनाति, तमपि प्रतिसमयमनंतगुणहीनं शुभानां च चतुःस्थानकं प्रतिसमयमनंतगुणवृद्धिं कुर्वन् करणं यथाप्रवृत्तं करोति, ततोऽपूर्वकरणं, ततः अनिवृत्तिकरणमिति, करणं परिणामविशेषः । एतानि च त्रीण्यपि करणानि प्रत्येकमंतर्मुहूर्तकानि तत उपशांताद्वा लभते सापि चांतमुहर्चिकी यथाप्रवृत्तिकरणं च-- अणुसमयं वड्ढंतो अज्झवसाणाणणंतगुणणाए । परिणामठाणाणं दोसु वि लोगा असंखिज्जा ॥१॥ ___इति कर्मप्रकृतौ, प्रतिसमयं अध्यवसानानामनंतगुणतया विशुद्धया वर्द्धमानानां करणसमाप्तिं यावत् वर्धन्ते तानि कियंति अध्यवसानानि भवंति ? द्वयोरपि यथाप्रवृत्तापूर्वकरणयोः परिणामस्थानानामनुसमयं लोकासंख्यया भवति यथाप्रवृत्तकरणे अपूर्वकरणे च प्रतिसमये संख्येयलोकाकाशप्रदेशराशिप्रमाणानि, अध्यवसायस्थानानि भवंति; तथाहि यथाप्रवृत्तकरणे प्रथम समये विशोधिस्थानानि नानाजीवापेक्षया असंख्येयलोकाकाशप्रदेश प्रमाणानि, द्वितीयसमये विशेषाधिकानि, ततोऽपि तृतीयसमये विशेषाधिकानि, एवं यावच्चरमसमये, एवमपूर्वकरणेऽपि द्रष्टव्यं । अमूनि चाव्यवसायस्थानानि यथाप्रवृत्ताऽपूर्वकरणयोः संबंधीनि स्थाप्यमा नानि विषमचतुरस्र क्षेत्र आवृण्वंति, तयोरुपरि चानिवृत्तिकरणाध्यवसायानि मुक्तावलीसंस्थानि उपरि उपरि अमूनि अनुचिंत्यमानानि प्रतिसमयमनंतगुणवृद्धया प्रवर्त्तमानान्यवगंतव्यानि, तिर्य ४१ For Private And Personal Use Only
SR No.008661
Book TitleShrimad Devchandra Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages1084
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Worship
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy