SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२६ ज्ञानमंजरी टीका. स्वल्पज्ञानेन नो शान्ति, याति दृप्तात्मनां मनः। स्तोकं दृष्टा यथा तप्त-भूमिरुष्मायतेतराम् ॥२॥ अतो निरतिचारानाशंसि यथार्थात्मबोधे रसिकतया भवनीयं तदर्थमेवांगोपांगयोगोपधानाद्यभ्यासो मुनीनाम् । तथा चोक्तवान् महात्मा पतंजलिप्रमुखः, यशोधनपदश्च श्रीहरिभद्रसुरिर्योगहष्टिसमुच्चये ॥३॥ वादांश्च प्रतिवादश्चि, वदन्तोऽनिश्चितांस्तथा। तत्त्वान्तं नैव गच्छन्ति, तिलपीलकवद् गतौ ॥४॥ व्या०-वादांश्चेति-वादान् पूर्वपक्षरूपान्, प्रतिवादान् उत्तरपक्षरूपान् , परपराजयस्वजयेंच्छया वदंतः विवादशुष्कवादादि कुवैतः, तत्त्वांतं तत्त्वस्य वस्तुधर्मरूपस्य अंतं पारं नैव गच्छंति नैव लभते, कथंमूतान् वादान् ? अनिश्चितान् अनिर्धारितपदाथस्वरूपान् वदंतः तत्त्वप्रांतं स्वीयात्यंतकाकृत्रिमात्मज्ञानानुभवरूपं नैव लभते । किंवत् १ गतौ गमने तिलपीलकवत् तिलपीलकवृषभवत् भ्रमन् स्थानांतरं न लभते, एवं तत्वज्ञानानमिलाषी अनेकशास्त्रश्रमं कुर्वन् न तत्वानुभवं स्पृशति, अतो यथार्थतत्त्वज्ञानरुचिमत्तया भवनीयम् ॥४॥ स्वद्रव्यगुणपर्याय-चर्या वर्या परान्यथा। इति दत्तात्मसन्तुष्टि-मुष्टिानस्थितिर्मुनेः॥५॥ व्या०-स्वद्रव्येति, स्वद्रव्ये गुणाश्रयलक्षणे शुद्धात्मनि स्वगुणे एकद्रव्याश्रितसहभाव्यनंतपर्यायोपेतज्ञानदर्शनचारित्रस्वरूपे स्वपर्याये उभयाश्रयलक्षणे अर्थव्यंजनादिभेदे चर्या तन्मयता परिणतिः, तत्र वर्त्तना वर्या श्रेष्ठा स्वद्रव्यगुणपर्याये परिणमनं आत्महितम् For Private And Personal Use Only
SR No.008661
Book TitleShrimad Devchandra Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages1084
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Worship
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy