SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज्ञानमंजरी टीका. यो न मुह्यति लग्नेषु, भावेष्वौदयिकादिषु । आकाशमिव पङ्केन, नाऽसौ पापेन लिप्यते ॥ ३ ॥ २१७ व्या० - यो न मुह्यति इति, यो जीवः तत्त्वविलासी 'औदयिकादिषु भावेषु, शुभाशुभकर्मविपाकेषु आदिशब्दात् परभावानुगक्षयोपशमे अशुद्रपारिणामिकभावग्रहः, तेषु 'लग्नेषु' आत्मनि स्वक्षेत्रीभूतेषु यो न मुह्यति मोहकीभावं न प्राप्नोति, भेदज्ञानविवेकेन त्यक्तपरसंयोगः अवश्योदितेषु यः अव्यापकः स पापेन कर्मणा न लिप्यते । किमिव पङ्केन आकाशमित्र, यथा आकाशस्थपङ्कः आकाशस्य न लेपकृत्, तत्र अपरिणमनात् । एवं शमसंवेगनि वैदनिग्रहीतपरभावस्य अवश्योदयविपाके भुज्यमानेऽपि अव्यापकत्वाद् न लेपः । स हि - पूर्वकर्मनिर्जरारूपं कार्य करोति, स्वीयपरिणामस्य भिन्नरक्षणेन अकर्तृत्वं तस्य परभावानाम् । उक्तं च अध्यात्मबिन्दौ For Private And Personal Use Only स्वत्वेन स्वं परमपि परत्वेन जानन् समस्तान्यद्रव्येभ्यो विरमणमिति यच्चिन्मयत्वं प्रपन्नः । स्वात्मन्येवाभिरतिमुपनयन् स्वात्मशीली स्वदर्शीत्येवं कर्त्ता कथमपि भवेत् कर्मणो नैष जीवः ॥१॥ न कामभोगा समयं उवेंति, नयावि भोगा विगई उवेंति । जे तप्पओसी अ परिग्गही अ सो तेसु मोहा विगई उबेइ ॥ २ ॥ 28 २९
SR No.008661
Book TitleShrimad Devchandra Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages1084
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Worship
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy