SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज्ञानमंजरी टीका. २१३ मलमुक्तेष्वपि स्थिरतारूपं चारित्रं इष्यते, पंचमाङ्गे सिद्धानां चारित्राभाव उक्तः, स च - क्रियाव्यापाररूपः, यस्तु स्थिरतारूपः सच-वस्तुधर्मत्वात् अस्त्येवेति, प्रज्ञापना- तत्त्वार्थ-विशेषावश्यकादिषु व्यक्तं व्याख्यातत्वात्, आवरणाभावे आवर्यस्य प्रागभावात् विगतचारित्रमोहस्य चारित्रप्रकटनात्, सिद्धानामपि स्थिरतारूपं चारित्रं, अतः स्थिरता साधनीया प्रथमं सम्यग्दर्शनेन श्रद्धास्थिरतां कृत्वा सद्भासनस्वरूपविश्रान्तिस्वरूपैकाग्रतारूपां स्थिरतां कृत्वा समस्तगुणपर्यायाणां स्वकार्यप्रवृत्तिरूपां स्थिरतां निष्पाद्य, समस्तात्मपरिणतिनिःसङ्गरूपां परमां स्थिरतां निष्पादयति, अतः समस्तचापल्यरोधेन योगस्थिरतां कृत्वा उपयोगस्थिरत्वेन स्वरूपकर्तृत्व-स्वरूपरमणत्व-स्वरूपभोक्तृत्वरूपं स्थिरत्वं साध्यं, तस्मात् स्थिरत्वसाधने यत्नः करणीय इत्युपदेशः || ८ || ॥ इति व्याख्यातं स्थिरताष्टकम् ॥ ॥ अथ चतुर्थी मोहत्यागाष्टकम् ॥ अथ स्थिरता मोहत्यागाद् भवति, आत्मनः परिणतिचा - पल्यं मोहोदयात्, मोहोदयश्च निर्धाररूपसम्यग्दर्शनस्वरूपरमणचारित्रवारकश्च क्षयोपशमी चेतनावीर्यादीनां विपर्यासपररमणतप्तत्वादिपरिणमनरूप इति, तेन चापल्यं, अतो मोहोदयवारणेन स्थिरता भवति, तेन त्यागाष्टकं वितन्यते, नामस्थापनामोहः सुगमः, द्रव्येण मदिरापानादिना मोहो मूढतापरिणामः, द्रव्याद् धनस्वजनवियोगात्, द्रव्ये शरीरपरिग्रहादौ द्रव्यरूपो मोहः, मोहनगीतादिषु गन्धर्वादीनां वाक्येषु, अनुपयुक्तस्य अगमनो नोआगमतो रागवत् । भावतो मोहः अप्रशस्तः, समस्तपाप २५ For Private And Personal Use Only
SR No.008661
Book TitleShrimad Devchandra Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages1084
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Worship
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy