SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज्ञानमंजरी टीका. व्या० - 'यस्येति' तस्मै शुभज्ञानध्यानमग्नाय योगिने नमः, शुभं नाम शुद्धं यथार्थपरिच्छेदनं, भेदज्ञानविभक्तस्वपरत्वेन स्वस्वरूपैकत्वानुभवः, तन्मयत्वं व्यानं तत्र मम्नाय तस्मै योगिने मनोवाक्कायरोकाय, रत्नत्रयाभ्यासशुद्धसाध्यसंसाधकाय नमः । कस्य ? यस्य दृष्टि: कृपावृष्टिः परमकरुणावर्षिणी, यस्य गिरः वाचां समूहः शमसुधाकिरः क्रोधादित्यागः शमः, स एव सुधा अमृतं, तस्याः किरः किरणं सेचनं । ( यस्य ) तच्छीला दृष्टिः कृपामयी वाक् शमतामृतमयी, तस्मै योगिने नमः इति अत्र भावना - अनादिमिथ्यात्वासंयमकषाययोगचापल्यविध्वस्तात्मस्वभावानां, इष्टानिष्टपरभावग्रहणाग्रहणरसिकत्वेन तत्प्राप्यप्राप्तौ रत्यरत्यशुद्धाव्यवसायमग्नानां, जीवानां कुतः स्वरूपमग्नता ?, अतः शंकाद्यतिचारवियुक्तावाप्तदर्शनो हि जीवः, शुद्धाशयः, त्रिभुवनमप्युपहतमोहमहेंधनज्वलित कर्मदहनक्कथ्यमानमशरणमवलोक्य गुणावरणार दुःखोद्रिग्नः, निर्धारिततत्वश्रद्धानः, आस्रवनिवृत्तिसंवैरैकत्वप्रतिज्ञामारा दृढीकरणार्थ, पंचविंशतिभावनाभावितांतरा - त्मा, द्वादशानुप्रेक्षास्थिरीकृताध्यवसायः, पूर्वकर्मनिर्जरामिनवाग्रहणाविर्भावभूतस्वरूपसंपदानुभवमग्नाः सुखिनः, अत एवागमश्रवणविभावविरतितत्वावलोकनतत्वैकाग्रतादि-उपायैः स्वरूपानुभवमग्नत्वं एवं कार्य, संसारे कर्मक्लेशसततत्वमवगम्य संसारोद्विनेन विरागमार्गानुगप्रवर्त्तिना आत्मस्वरूपाविर्भावहेतुषु सम्यग्दर्शनज्ञानचारित्रेषु वर्त्तितव्यमित्यर्थः ॥ ८ ॥ ॥ इति व्याख्यातं मग्नाष्टकम् ॥ ॥ अथ तृतीयं स्थिरताष्टकम् || अथ मनत्वं स्थिरतया भवति, अतः स्थिरताष्टकं प्रद १९ For Private And Personal Use Only २०७
SR No.008661
Book TitleShrimad Devchandra Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages1084
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Worship
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy