SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देवचंद्रजीकृत नयचक्रसार. चेष्टायामित्यादिरूपेण शब्दार्थों व्यवस्थितः तहत्ति तथैव यो वर्तते घटादिकोऽर्थः स एवं सन् भूतो विद्यमानः 'तदन्नहाभूओत्ति' वस्तु तदन्यथा शब्दार्थोल्लंघनेन वर्त्तते स तत्त्वतो घटाद्यर्थोपि न भवति किंभूतो विद्यमानः येनैवं मन्यते तेन कारणेन शब्दनयसमभिरूढनयाभ्यां सकाशादेवंभूतनयो विशेषेण शब्दार्थनयतत्परः । अयं हि योषिन्मस्तकारूढं जलाहरणादिक्रियानिमित्तं घटमानमेव चेष्टमानमेव घटं मन्यते न तु गृहकोणादिव्यवस्थितं । विशेषतः शब्दार्थतत्परोयमिति । वंजणमत्थेणत्यं च वंजणेणोभयं विसेसेइ । जह घडसई चेहावया तहा तंपि तेणेव ॥ १॥ व्यंज्यते अर्थोऽनेनेति व्यञ्जनं वाचकशब्दो घटादिस्तं चेष्टावता एतद्वाच्योंथन विशिनष्टि स एव घटशब्दो यच्चेष्टावन्तमर्थं प्रतिपादयति, नान्यम् इत्येवं शब्दमर्थेन नैयत्ये व्यवस्थापयतीत्यर्थः। तथार्थमप्युक्तलक्षणमभिहितरूपेण व्यअनेन विशेषयति चेष्टापि सैव या घटशब्देन वाच्यत्वेन प्रसिद्धा योषिन्मस्तकारूढस्य जलाहरणादिक्रियारूपा, न तु स्थानतरणक्रियात्मिका, इत्येवमर्थ शब्देन नैयत्ये स्थापयतीत्यर्थः इत्येवमुभयं विशेषयति शब्दार्थो नार्थः शब्देन नैयत्ये स्थापयतीत्यर्थः । एतदेवाह यदा योषिन्मस्तकारूढश्चेष्टावानर्थो घटशब्देनोच्यते स घटलक्षणोऽर्थः स च तद्वाचको घटशब्दः अन्यदा तु वस्त्वं तरस्येव तच्चेष्टाभावादघटत्वं, घटध्वनेश्चावाचकत्वमित्येवमुभयविशेषक एवंभूतनय इति ॥ २१ For Private And Personal Use Only
SR No.008661
Book TitleShrimad Devchandra Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages1084
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Worship
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy