SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१५१ ) भृतः-सर्पा एव भूषणं-अलङ्कारो यस्याः सा । ' अभीषणा' नभीषयतीत्यभीषणा । अरौद्रा । 'भीहीना' भिया हीना-भयरहिता। 'कुवलयवलयश्यामदेहा' कुवलयानि-नीलोत्पलानि तेषां वलयंसमूहस्तद्वत्-श्यामो देहो यस्याः सा । ' अमदेहा' अमदा-मद रहिता ईहा-चेष्टा यस्याः सा । ' अहीनाग्र्यपत्नी' अहीनां नागानामिनः प्रभुर्धरणेन्द्रस्तस्याऽत्र्यपत्नी-कलत्रप्रधानम् । वैरोट्यादेवीत्यर्थः । धरणेन्द्रस्य षडग्रमहिष्यः, इति भगवतीसूत्रे, तन्नामानि च इला, शुक्रा, सदारा, सौदामिनी, इन्द्रा, घनविद्युता च, तत्रैकैकाया देव्याः षट् षट् देवी सहस्राणि परिवाराः प्रज्ञप्ताः । पद्मावती वैरोट्या च द्वे नामान्तरे तासुस्त इति ज्ञायते । तथा चोक्तम्-“ॐ श्री पार्श्वनाथाय विश्वचिन्तामणीयते ही धरणेन्द्रवैरोट्या पद्मावती देवीयुतायते”। वैरोट्यास्वरूपमाचारदिनकरे चोक्तम् "खगस्फुरत्स्फुरितवीर्यवदूर्ध्वहस्ता, सद्दन्दशूकवरदापरहस्तयुग्मा । सिंहासनाब्जमुदतारतुषारगौरा, वैरोट्ययाऽप्यभिधयाऽस्तु शिवाय देवी ” ' त्वां ' भवन्तम् । ' त्रासात् ' भयात् । · अरं' शीघ्रम् । 'त्रायतां ' रक्षतु । ' त्रैङ्' पालने धातोराशिःप्रेरणयोरिति कर्त्तर्यात्मनेपदे तुबः स्थाने तातङादेशः ॥ ९२ ॥ વૈરાટ્યા દેવીની સ્તુતિ– લોકાર્થ—જે વેરાધ્યાદેવી, સભામાં ઉજ્વલ પ્રકાશ આપનારી છે, તેમજ ઉત્તમ અને ધારણ કરનારી છે, વળી જેના કેશના પ્રાંત-અંતિમ ભાગો શ્યામ અને સુંદર દીપે છે, તથા પરાજિત કર્યો છે શત્રુ સમૂહ જેણે એવા અને ( એ કારણથી ) For Private And Personal Use Only
SR No.008595
Book TitleJina Stuti Chaturvinshtika
Original Sutra AuthorShobhanmuni
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year1935
Total Pages301
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, & Worship
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy