SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १०१) जिनशासनस्य स्तुतिःजैनेन्द्रं मतमातनोतु सततं सम्यग् दृशां सद्गुणा लीलाभं गमहारि भिन्नमदनं तापापहृद् यामरम् । दुनिर्भेदनिरन्तरान्तरतमोनिर्नाशि पर्युल्लस ल्लीलाभङ्गमहारिभिन्नमदनन्तापापहृद्यामरम् ॥ ६३ ॥ जैनेन्द्रमिति–' गमहारि' गमैरालापकैर्मनोहरं रम्यम् । "गम आलापके पुंसि, मार्गे द्यूतान्तरे तथा। जिगीपुनृपप्रयाणेऽ-पर्यालोचनविज्ञयोः” इति शब्दसिन्धुः। ' भिन्नमदनं' भिन्नो मदन:पञ्चेषुर्येन तत् विदारितकामम् । ' तापापहृत् ' तापं-संसारजनितं खेदमपहरति यत्तत् । हृञ् ' हरणे इत्यस्मात् क्विपि — हृस्वस्यपितिकृतित्' गितितुगागमे हृदितिसिद्धम् । 'यामरं' यामाः-यमा-महाव्रतानि तान् राति-ददाति यत्तत् “ यामौ प्रहरसंयमौ” इति हैमः । ' दुर्निर्भेदनिरन्तरान्तरतमोनिर्नाशि' दुर्निर्भेदं-दुःखेनभेद्यं निरन्तरं-निर्विवरं, आन्तरं-मनोन्तरर्भवं तमः-मोहं निर्नाशयतीत्येवं शीलं यत्तत् । “ तमो ध्वान्ते पुंसि राहो, गुणेऽज्ञानाऽविवेकयोः । अविद्यायां तथा पापे, कूपे च नगरान्तरे” ॥ १ ॥ इति शब्दसिन्धुः। 'पर्युल्लसल्लीलाभङ्गमहारिभित् ' पर्युल्लसल्लीलान्-पर्युल्लसन्ती-दीप्यमाना लीला येपान्ते पर्युल्लसल्लीलास्तान् प्रोल्लस द्विलासान् “ लीला विलासो विच्छित्तिः” इति हैमः।अभङ्गान् , न विद्यते भङ्गः-पराजयो येषां तानजेयान् महारीन्-महान्तश्च तेऽरयश्च रागद्वेषादयस्तान् महा प्रतिपक्षान् भिनत्ति यत्तत् । 'नमदनन्तापापहृद्यामरं' नमन्तः-प्रणाम कुर्वन्तोऽनन्ताः-अपरिमिताः अपापा:-गतपापाः हृद्या-मनोहराः अमरा-देवा यस्य तत् , · जैनेन्द्र' जिनेन्द्राणामिदं जैनेन्द्रं तस्येदमि' त्यण , आदिस्वरस्य वृद्धि; । जिनेन्द्रप्रणीतं । ' मतं' दर्शनम् । For Private And Personal Use Only
SR No.008595
Book TitleJina Stuti Chaturvinshtika
Original Sutra AuthorShobhanmuni
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year1935
Total Pages301
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, & Worship
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy