SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ६७ ) श्रीमहाकालीदेव्या विजयः धृतपविफलाक्षालीघण्टैः करैः कृतबोधित - प्रजयतिमहा कालीमर्त्याधिपङ्कजराजिभिः । निजतनुलतामध्यासीनां दधत्यपरिक्षतां, प्रजयति महाकाली मर्त्याधिपं कजराजिभिः ॥ ४४ ॥ " धृतेति । ' कजराजिभिः ' कस्मिन् जातं कजं, कजवद्-वारिजवद् राजन्त इति कजराजिनस्तैः कमलवत्सुन्दरैः । ' 'वृतपविफलाक्षालीघण्टै: ' धृताः पविः - वस्त्रं, फलं- कुसुमोत्तरकालभावि वस्तुरूपं, अक्षाली - जपमाला, घण्टा - वाद्यविशेषो यैस्ते, " फलं हेतुसमुत्थे स्यात्, फलके व्युष्टिलाभयोः । जाति फलेऽपि कक्कोले, सस्य बाणायोरपि ॥ १ ॥ फलिन्यां तु फलीं प्राहु-स्त्रिफलायां फले कचित् ' इतिविश्वः । " फलं फले धान्यबीजे, निष्पत्तौ भोगलाभयोः " इति केशवः । तथाभूतैः । ' करै: ' हस्तैरुपलक्षिता । इत्यध्याहियते । ( अथवा करणभूतैः ) ' कृतबोधितप्रजयतिमहा 7 बोधिताः प्रजा लोका यैस्तेषां यतीनां श्रमणानां कृतो विहितो महः - पूजाउत्सवो वा यया सा । 6 अर्त्याधिपङ्कजराजिभिः ' अर्त्तिः- पीडा, आधिर्मानसिकव्यथा, पङ्को देहमलः, जरा - वार्द्धक्यं, आजि:-संग्रामश्व “ आजिःस्यात्संग्रामेऽपि समक्षितौ ” इति वि० तैः । " पुंस्याधिर्मानसी व्यथा " इत्यमरः । "अस्त्री पङ्कं पुमान् पाप्मा, पापं किल्विषकल्मषम् " । इत्यमरः । " पङ्कोऽस्त्रीकर्दमे पापे ” इति विश्वलोचन: ' ' अपरिक्षतां' न परिक्षता अपरिक्षता तां, अविध्वस्ताम् । अदूषितामित्यर्थः । ‘मर्याधिपं ' पुरुषप्रकाण्डम् । ‘अधेः शीस्थास आधारः (सिद्ध है ० २-२-२० ) इत्याधारस्य कर्मत्वम् । सीनां ' समारूढाम् ।' काली ' श्यामवर्णाम् । 'निजतनुलतां ' स्वा " 6 अध्या For Private And Personal Use Only
SR No.008595
Book TitleJina Stuti Chaturvinshtika
Original Sutra AuthorShobhanmuni
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year1935
Total Pages301
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, & Worship
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy