________________
Acharyashaalanagarmandarmana
प्रथमोनासे
॥चंद्रराजचरित्रम् ॥ ॥३६॥
PI दशमः
सर्गः॥
यताम् , येन मत्स्नुपासनं परित्यज्य विद्यमाने दिवाकरे निजनिकेतनं समागच्छेत् । देवः सविनयं जगाद भगवति ! नेदं महत्कार्य मन्ये, अञ्जलिअमितवारिणि तरण क्रियाऽऽरंभः किं विधीयते ? तथापि हे मातस्तवात्मजोऽधुनैव गृहमभिबजेतथा कमप्युपायं रचयामीति निगद्य सिद्धदेवेन दुर्जनहृदयवच्छयामतराऽभ्रघटा नभसि सद्यो व्यरचि, मेचकरुचिं तामभ्रमण्डली विलोक्य बहिणः केकारवं कर्तुं प्रारेभिरे, मकरध्वजकरवालबदतिचञ्चलाः सौदामिन्यः सर्वतोदिक्षु दिद्युतिरे, जीमृतगर्जनेन परितोऽम्बरतलं व्याप्रियत, पणतोऽनिवारिता वृष्टिभूमण्डलं प्लावयामास, शीतलः पवनो जनहृदयैः साकं भूरुहान् कम्पयन्सर्वतः प्रासीसरत् । एवमाकसिकदैवप्रभावेण मेघौधेन नभस्तले समाकान्ते सर्वतस्तमोमयं दिग्मण्डलं जज्ञे । यतो नृपतिर्भयाक्रान्तचेताः सहसा राजसभा विसृज्य निजावासं जग्मिवान् । विद्यमाने दिवानाथे समागच्छन्तं धराधर्व ज्ञात्वा गुणावली परमं विस्मयं जगाम, श्वश्रूवचसि बाढं विश्वस्ता च बभूव, निजनिकेतनं समागच्छन्तं स्वामिनं निरीक्ष्य निजाचारचञ्चुर्गुणावली ललाटपट्टे करसम्पुटं निवध्य संमुखं स्थित्वा सोपचारं प्राह, प्राणप्रिय ? अद्य सवेलमागमनं भवतां समजनि, पुनर्व्यग्रताग्रस्त भवतां मानसं कथं लक्ष्यते । प्राप्तावसरश्चन्द्रनरेशोऽवादीत्, प्रिये ? अकालिका वृष्टिरियं पतति । अतीव शीतलः पवनः प्रसरति, तस्मादहं सत्वरं समागतोऽस्मि, अद्य वृष्टिसंपातेन मे वर्भृशं वेपते, तेन मे हृदिव्याकुलता दृश्यते । भक्तिभरावनतवनितामूर्द्धन्या गुणावली स्नेहभावं व्यञ्जयन्ती जान्हवीवरवालुकातिकोमलां शय्यां सज्जीकृत्य प्रच्छादनचीनांशुककशिपुभिर्विभूषयामास, ततश्चन्द्रनरेशः सूक्ष्मांशु केन बद्धश्रवणयुगलः पर्यङ्कमुपाविशत् । गुणावल्या मृगमदादिसुवासितं ताम्बूलबीटकं तस्मै वितीर्य विविधाऽऽसवादिपानकं प्रदत्तम् । नारायणादिसौगन्धिकतैलेन तस्य शरीरश्चविमर्दितम् । इत्यनेकसुवासितद्रव्योपचारेण
॥३६॥
For Private And Persone
n