SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhanekendra www.kobahrth.org Achnatha n Gym अस्मिलोके मत्तः कापि नास्त्यधिकेति च गर्वमुबहसि, परन्त्वहं तव जन्म निष्फलमेवजानामि, त्वन्त्वतीब मुग्धाऽसि, स्वकीयं वार्थमपि न वेत्सि, किमधिकं ब्रवीमि, तव सदृशं जीवितं क्षणमपि विदग्धा काऽप्यपरा न धारयेत् । इत्थं वीरमत्या मर्मवचनानि निशम्ग गुणावली प्रोवाच, हेमातस्त्वामहं जननीसमां जानामि, त्वय्येव विश्वस्ता सदा तिष्टामि, त्वमेव मे हितचिन्तकासि, किमन्यकम्पनया? भगवति ? अनागसं मां वचनाशुगैः किमेवं पीडयसि । मम किंक्षीणमस्ति ? हस्त्यश्वरथसुवर्ण रत्नदुकूलादीनि सर्ववस्तूनि मनोवाञ्छितानि मे दृष्टिगोचराणि विद्यन्ते । स्वजनवर्गोऽपि सदानुकूलतया मां परिचरति । भूरिभाग्यतया त्वादृशी श्वश्रूरपि सततं मे हितोपदेशिका मिलिता, ततोऽहं निजजन्म कृतार्थमेव मन्ये, मादृशी सुकृतशालिनी स्त्री कापि न विद्यते, ततो वीरमती तस्याः करं गृहीत्वा प्राह, वत्से ! त्वं सर्वथा मुग्धा दृश्यसे, मद्वचनरहस्य किश्चिदपि त्वया न ज्ञातम् । ओष्ठपल्लवप्रकम्पनेनाखिलवृत्तान्ततत्त्वं ये विदन्ति तादृशा जनास्तु दुर्लभाः सन्ति, किञ्चास्मिल्लोके विज्ञानगुणोऽतिदुर्लभोऽन्येगुणास्तु सुतरां लभ्यन्तेऽखिलजनैः। यदुक्तम्-न द्रव्यं द्रव्यमित्याहु-बुद्धिसाध्यमिदं स्मृतम् । तस्माज्ज्ञानकला साध्या, पूर्वमेव हितार्थिभिः ॥ १॥ किं किं न साध्यते विद्या-कल्पवल्या जगत्यहो। ययाऽन्यचित्तसंभृतः, सङ्कन्पो वेद्यतेऽनिशम् ॥ २॥ ततोऽस्मिन्ससारे रूपसंपच्या न कोऽपि प्रमोदते । गुणं दृष्ट्वा सर्वे तुष्यन्ति, गुणा एव तुष्टिकरा इति वचनात् । अन्यदप्युक्तम् । गुणा एव हि पूज्यन्ते, न रूपं न कुलं तथा । गुणानामजने लोकाः, प्रवर्तन्ते यतः सदा ॥१॥ स्वरूपसम्पत्त्यासुवर्णपुष्पापुष्पाणि मनोरमागि दृश्यन्ते, तथापि निर्गुणत्वात्तानि संग्रहीतुं न कोऽपि कर प्रसारयति । त्वं तु केवलं सूक्ष्मदुकूलानि परिहितुं जानासि, किश्चिन्मात्रमपि तव बुद्धिबलं नास्ति. एकतश्चत्वारो वेदाश्चैकतश्चातुर्यकलेतदुभयं For Private And Personale Only
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy