SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ चंद्रराजचरित्रम् ।। ऽष्टमः सर्गः।। ॥३१॥ धर्मस्य जिज्ञासा, कर्तव्या धर्मसाधनी ॥१॥ वेदोक्तधर्मोपदेशमेवाह-नोदनालक्षणो धर्मो, नोदना तु क्रियां प्रति । प्रवर्तकं वचः प्राहुः, स्वःकामोऽग्नि यजेद्यथा ॥१॥ वेदोक्तस्वर्गादिसाधकाम्नायस्य क्रियाप्रवर्तकं वचनं नोदनामाहुरित्यर्थः । शिष्यानुकम्पया तत्सूत्रेणैव दृष्टान्तयत्राहयदा स्वर्गाभिलाषी जनोऽग्निकार्य कुर्यात् । यथाहुस्तत्सूत्रम्-अग्निहोत्रं जुहुयात्स्वर्गकाम इति । प्रमाणान्याह-प्रत्यक्षमनुमानञ्च, शब्दश्वोपमया सह । अर्थापत्तिरभावश्च, पट्नमाणानि जैमिनेः ॥ १॥ प्रत्यक्षादिप्रमाणानां स्पष्टत्वादापत्तिलक्षणमाह-दृष्टार्थाऽनुपपपया तु, कस्याऽप्यर्थस्य कल्पना । क्रियते यद्भलेनासा-वर्धापत्तिरुदाहृता ॥१॥ यथा पीनो देवदत्तो दिवा न भुङ्क्ते, पीनत्वस्याऽन्यथाऽनुपपत्त्या रात्राववश्यं भुत इत्यर्थ इत्यत्र दृष्टविना भोजनं पीनत्वं दुर्घटं, दिवा च न भुतेऽतो रात्राववश्यमदृष्टं भोजनं ज्ञापयतीत्यर्थापत्तिः प्रमाणम् । अथाऽभावप्रमाणमाह-प्रमाणपश्चकं यत्र, वस्तुरूपे न जायते । वस्तुसत्तावबोधार्थ, तत्राऽभावप्रमाणता ॥१॥ उपसंहरनाह-जैमिनीयमतस्यापि, संक्षेपोऽयं निवेदितः । एवमास्तिकवादानां, कृतं संक्षेपकीर्तनम् ।। १॥ विशेष्यान्तरमाह-नैयायिकमतादन्ये, भेदं वैशेषिकैः सह । न मन्यन्ते मते तेषां, पञ्चैवास्तिकवादिनः ॥ १॥ दर्शनानां पटसंख्या जगति प्रसिद्धा कथं फलतीत्याह-षष्ठदर्शनसंख्या तु, पूर्यते तन्मते किल । लोकायतमतक्षेपात्-कथ्यते तेन तन्मतम् ॥ २॥ ये नैयायिकवैशेषिकयोरेकरूपत्वेनाऽभेदं मन्यमाना दर्शनपश्चकमेवाचक्षते तन्मते षष्ठदर्शनसंख्या लोकायतमतक्षेपात् पूर्यते । तदेवाह-लोकायता वदन्त्येवं, नास्ति देवो न निवृतिः । धर्माऽधौं न विद्येते, न फलं पुण्यपापयोः ॥ १।। कथमित्याह-एतावानेव लोकोऽयं, यावानिन्द्रियगोचरः । भद्रे ! वृकपदं पश्य, यद ॥३१॥ For And Persone
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy