SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ चंद्रराजचरित्रम् ॥ ॥१७॥ अन्धकार प्रशस्ति: प्रभा सुललितं चारित्ररत्नं दधत् , सिद्धारमा सुखसागरो मुनिवरो दधे क्रियाकौशलः । शुद्धाहारविहारबोधनपटुः प्रातः प्रगेयाभिधो-भव्यानां भवतारकः श्रुतवतां सम्यविक्रयादर्शकः ॥२६॥ यो जैनसङ्घ विशदीचकार, समं सदाचारवृतोपदेशात । प्रथीयसी यस्य विशुद्धकीर्ति-दिगन्तरे क्रीडति नत्तेकीव ॥ ३०॥ तत्पट्टोदय धरोच्चशिखरे भास्वत्प्रभाभासुरो-राजद्राजकलापबोधनपटुप्रज्ञः प्रमादोज्झितः । सिद्धान्तोदधिपारगः परमतप्रेचावतां पण्डितः, सूरिश्रीमद्बुद्धिसागरमहाचार्यः कृतार्थक्रियः | ॥ ३१ ॥ नानादेशविहारकर्मठमतियः पावयन्भूतलं, वाचस्पत्ययशोवितानमतुलं विस्तारयस्तेजसा । विद्यारत्नसमुद्भवेन सकलान्वादिप्रवन्धाञ्जयन् । सार्वज्ञं विशदार्थतत्वनिचयं सत्यापयामासिवान् ॥ ३२ ॥ यो विद्वजनसंसदि प्रथितधीधीरः सतामप्रणी-वीरः स्वेतरतत्वयुक्तिमथने वीरोज्ज्वलत्कीर्तिकः । ग्रन्थानष्टशतं सुबोधविशदान्यो निर्ममे नूतनान् , भव्यानामुपकारकारकधिया योगीन्द्रसेव्यक्रमः ॥ ३३ ॥ येषां शिष्यगणो विराजति भवढेराग्यरङ्गोत्सवः, क्षीणक्रोधरयः प्रकामपटुता शाखेषु संधारयन् । नानापत्तनसंस्थितिं क्रमविदां धूर्यः प्रकुर्वन्मुदा, मव्यानां भवभीतिभेदकवरं बोधं प्रदत्ते सदा ॥ ३४॥ यत्पढ़े सूरीन्दु-रजिताब्धिरशेषतत्वबोधनः । कविकुलकलितख्यातिः प्रसिद्धवक्त्रादिमो विभात्येषः ॥ ३५ ।। यः शिष्टार्थविचचणः शुभमतिः प्राचीनपाठं स्मरन्, शस्तं चान्द्रचरित्रमुत्कटगुणं लोकोपकारक्षमम् । निर्माय प्रतनुस्वकर्मकरणात्पारोच्यभावोज्झितः, शश्वच्छान्तिसुधोज्ज्वलाचयगृहंश्रीहरिरासेवते ॥ ३६ ।। श्रेयश्चन्द्रचरित्रमुन्नतधिया निर्वाच्य सन्तः सदा, मिध्यात्वासरावरोधकवरं सम्यक्त्वसंपादकम् । मोदन्तां सुसमाहितोक्तिपटवः संवेगरङ्गचितौ,चन्तव्यं यदि धीधनैः स्खलनता जाता कचिन्मानवी ॥ ३७॥ पूज्यश्रीविजयान्तमोहनमुनिस्पष्टीकृतोर्वीपति-श्रीमच्चन्द्रनरेशरासरचनासारेण सिद्धाशयः। ॥१७६।। For PvAnd Persone ly
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy