________________
ShriMahavir Jain ArachanaKendra
Achar
व्रतो-भव्याम्मोरुहराजिभानुरनिशं भास्वत्प्रभाभासुरः ।। १६ ॥ यस्य शिष्योऽभवद्भरि-प्रभावो भावसागरः । यदुपदेशतो भ्राजन्मेदपाटनरेश्वरः ॥१७॥ भीमसिंहाभिधो जने, गुरुश्रद्धापरायणः । सोऽनेकसंघकार्याणि, विदधे भक्तिभावतः ॥१८॥ श्रीसंघस्याग्रहेणेच, तत्र यो मुनिपुङ्गवः । महोदयोदयपुरे-ऽजितनाथजिनेशितुः ॥१९॥ पद्यनाथप्रभोश्चैव, प्रतिष्ठा सुखहेतवे । तथाञ्जनशलाकाञ्च, चकार विधिना शुभाम् ॥२०॥ तत्पट्टोदयसानुमदिनकरोऽदीनप्रभावोज्ज्वलः, संजज्ञेऽथ सरूपसागरमुनि चिंयमानां धुरि । सदोधामृतवर्षणेन जनतां सन्तोषयन्सर्वदा, दने ख्यातिमलौकिकी भुवि जितक्रोधाद्यरिश्रेणिकः ॥२१॥ तत्पट्टोरुसुमेरुसानुतरणिः क्षेमकरश्रीधरो, ज्ञानाब्धिः प्रवरप्रतापमहितो रेजे प्रभाभासुरः । कल्याणैकनिविर्षिया विशदया सिद्धान्तपारंगमी, चारित्रं विमलं भजन्परजनाँस्तद्भाविनो व्यातनोत् ॥ २२ ॥ तत्पट्टश्रियमावभार सुमतिर्भव्याङ्गिनां संमतः, श्रेयःसन्ततिदायकः शुभरुचिः श्रीमन्मयासागरः । सिद्धान्तोदघिशीतभानुरनघो वैराग्यवल्लीधनो, जज्ञे ज्ञाननिधिर्जितेन्द्रियगणः सद्ध्याननिष्ठापरः ॥ २३॥ तत्पट्टमेरुशिखरे विमलप्रभावः, श्रीनेमिसागरमुनिप्रबरो रराज । शुद्धक्रियां प्रथयतिस्म समस्तसङ्के, यः शुद्धशीलविभवः समतानिधानः ॥ २४ ॥ प्रतिग्रामपुरं यो हि, विहरन्विमलाशयः । अनेकभन्यजीवानां, बोधिबीजमदर्शयत् ।।२५।। येषां चारित्ररत्न बहुतरविमलं ज्ञानलक्ष्मीविभूषा, सद्भावः सत्क्रियायां विलसति रुचिः शान्तभावः प्रधानः। सौम्याकारा सुमूर्तिजनहृदयमहामोददा संयताना, सर्वेषां भावनीयाः शिवयुवतिवृताः क्षीणकर्मप्रभावाः ॥२६॥ पुरन्दराः सर्वमुनीश्वराणां, धुरन्धरा जैनमहोन्नतीना, उद्धारकाः शुद्धतरक्रियाणा-माराधका ये च महाव्रतानाम् ।। २७ ।। तत्पट्टपूर्वाद्रिविभासमानो-भानुप्रभः श्रीरविसागरोगुरुः । बभौजितक्षीरनिधिप्रभावो-गुणैश्च गम्भीरतया स्वकीयैः ।। २८ ।। तत्पट्टप्रथित
For Private And Personlige Only