________________
रुच्यते ॥ २ ॥ योयुपकृतंविस्मरति सत्वदृष्टव्यमुखःस्मृतः। यतश्चोक्तम्-उपकारिणि विश्वस्ते, साधुजने यः समाचरति पापम् । तं जनमसत्यसन्धं, भगवति वसुधे ? कथं वहसि ।।१॥ दुर्जना विद्यमानानप्यन्यगुणान्न पश्यन्ति, साधवस्तु दासत्वमङ्गीकुर्वन्ति, चन्द्रराजेन पुराऽपि प्रभुतंद्रव्यं नटेभ्यःप्रदत्तं, पुनरपि प्रामादिककियद्वस्तु वितीय तानप्रीणयत् । दिगन्तकीर्चिश्चन्द्र राजोलब्धविजयोभूयसींप्रसिद्धिमवाप, गुणावलीप्रेमलालक्ष्म्यौ घणमपि वियोग न सहेते तद्यथा-थाङ्गनाम्नोरिव नेत्रयोयेथा, यथा च भारण्डवपुयस्य । यथा सुशिष्यस्य गुरोबभूव, तयोस्तथा भावनिवन्धनं दृढम् ॥१॥ नृपोऽपि तयोःसमान दृष्टिरभूत् । तदृष्टिरूपतसंयोगेन तयोः प्रेमगोरसः पिच्छिलत्वमियाय । एवंतयोःसुखविलासेन कियत्सु व्यतीतेषु वासरेषु क्रमेण कश्चिदेवोदिवश्युत्वा गुणावल्याःकुक्षौ शुभस्वप्नसूचितपुत्रत्वेनावतीर्णः। पूणेषु गर्भमासेषु, गुणखानिर्गुणावली । स्वामिनाऽवेक्षिता नित्यं, पुत्ररत्नमजीजनत् ॥ १॥ आनन्दितमनाः काचि-दन्तःपुरनिवासिनी । प्रणम्य नृपति दासी, पुत्रजन्म न्यवेदयत् ॥ २ ॥ दारिद्यनाशकं तस्यै, धनं दत्वा नराधिपः । भूरिद्रव्यव्ययाच्चक्रे, पुत्रजन्ममहोत्सवम् ॥३॥ प्रशस्तलक्षणंपुत्रं, दृष्ट्वा तुष्टो नरेश्वरः । वृद्धानामनुरोधेन, षष्ठीजागरणं व्यधात् ॥ ४॥ द्वादशान्हि ततस्तेन, नाम चक्रे यथागुणम् । गुणशेखर इत्याख्यं, जन्मनक्षत्रसंगतम् ॥५॥ कल्पवृक्ष इवाजलं, पितृभ्यां पालितोऽर्भकः । दिने दिने परां वृद्धि, पुपोष पितृवेश्मनि ॥६॥ ततः श्रीप्रेमलालक्ष्मीः सुपुबे पुत्रमुत्तमम् । मणिशेखरनामानं, तंव्यधत्त नरेश्वरः ।।७॥ सहैव क्रीडमानौ | तौ, पितुर्मोदमनुत्तमम् । वर्द्धयामासतुर्नित्यं, संसारसुखभोगिनः॥ ॥ चन्द्रराजः सुतौ योग्यौ, निजोत्सङ्गे निधाय वै । क्रीडयन्बाललीलाभिः, प्रमोदं जग्मिवान्परम् ।।६।। मानसाख्यसरस्तीरे, विलसन्तौ सितच्छदौ। उभौ सुताविवाजलं, शुशुभाते
For
And Persone