SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ चंद्रराज- चरित्रम् । ॥१५॥ * चतुर्थोबासे पञ्चमः सर्गः॥ श्वशुरगृहंगत्वा सदाचारेण निजपितुःप्रतिष्ठा वर्द्धयस्य, यतः पतिहिं देवो नारीणां, पतिबन्धुः पतिर्गतिः। पतिस्तीर्थ पतिः पूज्यः, पतिः सर्वस्वमिष्यते ॥१॥ अन्यच्च-भक्तिः प्रेयसि संश्रितेषु करुणा श्वश्रूषु ननं शिरः, प्रीतिर्यातषु गौरवं गुरुजने चान्तिः कृतागस्यपि । अम्लाना कुलयोषितां व्रतविधिः सोऽयं विधेयः पुन-मद्भर्तुर्दयिता इति प्रियसखीवुद्धिः सपत्नीयपि ॥१॥ अभ्युत्थानमुपागते गृहपतौ तद्भाषणे नम्रता, तत्पादार्पितदृष्टिरासनविधिस्तस्योपचर्या स्वयम् । सुप्ते तत्र शयीत तत्प्रथमतो जह्याच्च शय्यामिति, प्राच्यैः पुत्रि ! निवेदितः कुलवधृसिद्धान्तधर्मागमः ॥ २॥ शुश्रूषस्व गुरुन्कुरु प्रियसखीवृत्तिं सपत्नीजने, भतुर्विप्रकुनाऽपि गेषणतया मास प्रतीपं | गमः । भूयिष्ठ भव दक्षिणा परिजने भोगेष्वनुत्सेकिनी, यान्त्येवं गृहिणीपदं युवतयो वामाः कुलस्याधयः ॥ ३ ।। निर्व्याजा दयिते ननान्दृषु नता श्वभूषु भक्ता भव, स्निग्धा बन्धुषु वत्सला परिजने मेरा सपत्नीष्वपि । भतुमित्रजने सनम्रवचना | खिन्ना च तद्वैरिषु, प्रायः संवननं नतच तदिदं वीतौषधं भर्तषु ॥ ४॥ स्नानाम्भो बहु माधिता रसवती देवादिकार्योचितः, संभारो रचितो विशुद्धवसने कालोचिते योजिते । स्नानं नाथ ! विधीयतामतिथयः सीदन्ति नान्या त्वरा, धन्यं बोधयते | शनैरितिपतिं मध्यान्हकाले सती॥ ५॥ सञ्चारो रतिमन्दिरावधि सखीकर्णावधि व्याहृनं, चेतः कान्तममीहितावधि महामानोऽपि मौनावधि । हास्यं चाधरपल्लवावधि पदन्न्यासावधि प्रेक्षितं, सर्वे सावधि नावधिः कुलभुवां प्रेम्णः परं केवलम् । ६ ॥ शुश्रूषामनुरुन्धती गुरुजने वाक्येन नो दुःस्थिता, दाक्षिण्यैकपरायणा परिजने स्निग्धा सपत्नीपपि । सनद्धाऽतिथिसत्कृतौ गृहभरे नैस्तन्यमाविभ्रती, वत्से ! किंबहुना भजस्व कुशलं भर्तुः प्रिये जाग्रती ॥७॥ इत्युपदिश्य तजननी वियोगा ॥१५॥ For Private And Persone
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy