________________
चतुर्थोलासे द्वितीय
॥ चंद्रराजचरित्रम् ॥ ॥१३१॥
| सर्गः॥'
तीव्रदशने, वरं वह्नौ पात-स्तदपि न परायत्तवसनम् ॥१॥ सर्वदाऽयं भवाध्यां विस्मरणीय:-किमासेव्यं पुंसां, सविधमनवयं मुनिपतेः, किमेकान्ते ध्येयं, चरणयुगलं श्रीजिनपतेः । किमाराध्यं पुण्यं, किमभिलपणीयश्च करुणा, यदासक्त्या चेतोनिरवधिविमुक्तौ प्रभवति ॥ १॥ एवंवैराग्यभावभावयन्कुकवाकुःप्रेमलाकरादुड्डीय सहसा तस्मिन्कुण्डे झम्पामदात् , प्रेमला तत्साहसंविलोक्य संभ्रान्तचेताःप्राह___ विहङ्गमैतत्किमकारि साहस-मात्मोपघातेन सुखं कुतस्तराम् । त्वामत्र संत्यज्य जलाशयेक्षता, दास्याम्यहं नाव्यविदा किमुत्तरम् ॥१॥ माता पिता मे तब दुःखदुःखितौ, मुखं मदीयं न विलोकयिष्यतः । स्वन्पाऽनुपङ्गेण कृतं किमु त्वया, प्रतार्य मां दीनमुखीमनाश्रयाम् ॥२॥ मत्परीक्षाकृते मन्ये, साहसं तावक द्विज ! । अतस्त्वं बहिरागत्य, सद्यः संभावयस्व माम् ॥ ३ ॥ अन्यथा त्वद्गतिं यास्ये, विद्धि त्वय्येकमानसाम् । देहेन भिन्नता मन्ये, त्वत्तःप्रेमवशंवदा ॥ ४ ॥ कृतसङ्कल्पकल्पा सा, तदनुग्रहणेच्छया । अलक्ष्यपतना कुण्डे, निपपात सखीगणैः ॥५॥ कुण्डे निपतितां वाला, दृष्ट्वा हाहारवोऽभवत् । | प्रेमला तु तमादातु-मुद्यताऽभवदञ्जसा ॥ ६॥ वीरमत्या निबद्धः स, दवरो जीर्णतां गतः । तत्करस्पर्शमात्रेण, द्विधाऽभूदैवयोगतः ।। ७॥ तदानीं चन्द्रराज तं, दीव्यरूपधरं समे। विलोक्य विस्मयं प्रापुः, कुर्वन्तस्तीर्घभावनाम् ।। ८॥ समेत्य तत्क्षणाचत्र, शासनाधिष्ठदेवता । कुण्डादुद्धृत्य तौ प्रीत्या, मुञ्चतिस्म बहिस्तटे ॥ ६ ।। प्रेमलाऽथ गतस्वास्थ्या, समवेक्ष्य निजं पतिम् । प्रमोदवारिधी मग्ना, सिद्धसर्वमनोरथा ॥ १० ॥ सर्वत्र प्रससारेदं, वृत्तान्तं कौतुकावहम् । सम्यक्त्वधारिणो देवाः, पुष्पवृष्टिं व्यधुर्मुदा ॥ ११ ॥ महिमा तैर्थिको लोके, व्याप सजनमानसे । तत्त्वबोध इवानर्घः, छन्नस्तिष्ठति नो रविः
* ॥१३॥
For Private And Persone