________________
Acharya Sh Kasagarson Gyarmat
-*
*
॥चंद्रराजचरित्रम् ॥ ॥१२३॥
तृतीयोचासे दशमः सर्गः॥
**
मकार्षीत् । पुनःसाऽवदत्-विहङ्गम ? मया तुम्यं, भणितं मुग्धभावतः । तेनाऽसाधारणं दुःखं, कथं जातं तवाऽधुना ? ॥१॥ हि तत्कारणं पक्षिन् ?, गोपनीयं न चेन्मम । विश्वस्तानां हि किं गोप्यं, सत्यवक्ता सुखी भवेत् ॥२॥ विरहव्यथिताऽहन्तु, प्रावोचमीदृशं वचः । तवेदृशं कुतो दुःखं, जातं विस्मयकारकम् ।। ३ ॥ अनेन तव दुःखेन, सापराधाऽस्मि साम्प्रतम् । दुःखं निवेद्य मां सद्यो-भव निवृत्तिभाजनम् ॥ ४ ।। स्वदुःखस्य विधाताय, त्वामपृच्छं द्विजोत्तम । किन्तु दुःखं त्वदीयं मे, मानसं पीडयत्यलम् ।। ५ ।। अतोभवान्मत्तोऽप्यधिकतरांविरहवेदनामनुभवन्दृश्यते । तत्कारणंनिवेदय ततस्ताम्रचूडेन भूतले - क्षराणि विलिख्य तस्यै विज्ञापितम् , प्रमदे ? चन्द्रराजनामाहंनृपतिरामापुर्यान्यवसम्, मद्विमात्रा निष्कारणमहमिमादशाप्रापितः। गुणावली नाम्नी मम महिषी गृहेस्थितापूर्वपीडामनुभवति, तस्याविरहोमाभृशंब्यथयति, त्वदने कियदुःखंवर्णयामि, एकेन मुखेन मया वक्तुंकुतःपार्यते । मद्वियोगेन साऽपि दुःखार्णवे निमग्ना भविष्यति, पुनश्चाऽहंनटैःसार्द्धपञ्जरे पतितोऽनिशंदेशान्तरे पर्यटामि ॥ आभापुरी मदीया क, क्वच मे राजमण्डलम् । कसा राज्ञी क मानुष्यं, क्क तिर्यक्त्वगतिर्मम ॥१॥ शोभनाङ्गिी मदुःखपारो न विद्यते, देशान्तरगतस्त्वत्पतिस्त्वचिरादागमिष्यति, परं गुणावच्या मम समागमोभविष्यति न वेति सर्वज्ञप्रभुर्जानाति, अतोहब्रवीमि, स्वसः १ मतुल्यं तव दुःखनाऽस्ति, मेरुसर्षपसमानंदुःखंवहमानयोरावयोर्महदन्तरविद्यते । चणमात्रमपि पतिवियोगमसहमाना वमीदृशींवेदनामनुभवसि, तर्हि मत्पत्न्याःकीदृशीस्थितिभविष्यति? किंबहुभाषितेन ? श्रूतमात्रेण तदुःखेन चणमपि जीवितंत्वन धारयेथाः । इत्थंताम्रचूडाभिप्रायविदित्वा लीलावती कश्चित्प्रमोदमापन्ना निजदुःखं शिथिलीचकार, विज्ञातञ्च तया मनस्विन्या, काकस्योपकृतिंकरोति, उभौसमानौमिलितौ । पुनःसा चन्द्रराजमाह-नमन्तव्यं
॥१२३॥
For Private And Personale Only