________________
Shri Mahavir Jain Aradhana Kendra
॥ चंद्रराज
चरित्रम् ॥
॥ १ ॥
**********************→
www.kobatirth.org
मास । ज्ञानसुधोदन्वन्तं नमामि तं पुण्डरीकगणनाथम् ॥ ६ ॥ जाड्यान्धकारहारिणि ?, सचराचरबोधदायिनी त्वामिह । शील कथावस्तु, वाग्देवि ? सदाननालये तिष्ठ ॥ ७ ॥ गुरुवारिनिधिस्तरितुं, गुणरत्नभृतोऽनिशं कथं शक्यः । यस्योपकृतिरनल्पा, तं गुरुदेवं स्तवीम्यहं भूयः ॥ ८ ॥ श्रीचन्द्रनरेन्द्रस्य, चरितं सच्छीलवृत्तितो रम्यम् । श्रवणाऽलङ्कृतिभूतं, तनोमि धर्मार्थसिद्धिसन्तानम् ॥ ६ ॥ यस्मिन् श्रुतेऽनवद्ये, सुधां सुधा मन्वते विबुधवाराः । तं कविकृतं विलास - माकर्णयतैकमानसा रसिकाः ? ||१०|| हृद्यः कथाप्रबन्धो व्याख्याता मिष्टवाग्विलासोऽपि । श्रोता चार्थविदग्ध - स्तदैव माधुर्यमाप्यते शस्यम् ॥ ११ ॥ समस्ति श्री माँश्चतुर्दशराजलोकप्रमाण लोकत्रयमध्यवर्त्ती पृथ्वायतैकै कराजप्रमाणऊर्द्धाऽधोभागेऽष्टादशशतयोजनमानस्तिरश्रीनोभूलोकः । तत्रैकलक्षयोजनप्रमितः पार्वणरजनी करवर्चुलाकृतिरस्ति जम्बूद्वीपनामद्वीपः । तस्योत्तरकुरुपूर्वार्द्धं जाम्बूनदमयो निभृतोदाम भूरिरसो जम्बूतरुर्विलसति, यस्य परितः चतसृषु दिक्षु मणिरत्नविभूषिता पद्मवेदी विराजते, तस्या मध्यपीठेऽष्टयोजनविस्तृतश्चतुर्योजनोन्नतो वज्ररत्नमय मूलसन्ततिररिष्टरत्नम यकन्दो वैडूर्यमयद्वियोजन (पइयोजन इति पाठान्तरम्) प्रमितस्कन्धः क्रोशद्वयविस्तृतचतुःसुशाखः स जम्बूतरुर्विभ्राजते, ताश्रशाखाः प्रत्येकमुच्चायामत्वे पञ्चदशक्रोशप्रमाणास्तन्मध्यशाखाग्रेऽमेयविक्रमाकलितानाढ्याभिधेयसुररक्षितं सिद्धायतनं द्योतते, पुनः स जम्बूतरुः सौवर्णशाखाप्रशाखाप्रचयो, बैर्यमयरमणीय पलाशराशिर्यशो विवृद्धहाटकमय सत्पल्लवो, राजतफलकुसुमसंभारः, शाश्वतभावं परिधत्ते । अपरेऽपि तन्निकटवर्त्तिनोऽनेकजम्बूपादपाः सन्त्यतस्तन्नाम्ना जम्बूद्वीप इतिप्रसिद्धिर्जज्ञे, तत्र पडखण्डखण्डमण्डिताष्टमीशशधरप्रकाशं श्रेयोभरभरितं भरतचेत्रं सकलक्षेत्रमूर्द्धन्यता मावहति यतो यत्र विशेषतया तीर्थरा सिद्धाचलतीर्थं पावनतरं विराजते ।
For Private And Personal Use Only
←*O**O*-**-LOK LOK******
Acharya Shri Kassagarsuri Gyanmandir
प्रथमोलासे
प्रथमः
सर्गः ॥
॥ १ ॥