SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ ॥चंद्रराज-1 चरित्रम् ॥ द्वितीयोन्जा च सगेः॥ निद्रासुखमनुभवति, तत्र गत्वाऽहंमोचयिष्यामि तदा स निद्रामुक्तोभविष्यति, मदीयामुक्तिसत्यांमन्यस्त्र, ईदृशंग्रथिलत्वं मा विधेहि, यंकञ्चन विलोक्य चन्द्रचन्द्रेति मा वद, जगत्यस्मिन् समानरूपवयसोऽनेकेऽङ्गिनोदृश्यन्ते, इतिवीरमतीवचनानि निशम्य गुणावली मौनमुखी बभूव, तथापि श्वश्र्वचसि तदीयमानसमविश्वस्तंजातम् । यतःयो येन दृष्टो विशदः पदार्थः, स केन युक्त्याऽपि निवर्यतेऽत्र?। सत्यं हि सर्वत्र विकाशमेति, कियच्चिरं कूटकलाकलापः ॥१॥ अथ मकरध्वजभूपोनिर्जितमीनकेतनंवरविलोक्य हर्षभरेणोद्भिद्यमानंरोमाश्वभरबमार, रमणीयरमणीजनवल्लभकमनीयरूपलावण्याऽऽगारंजामातरंश्लाघमानोनिजात्मानधन्यतमममन्यत, अहो ! ईदृक् तेजवी वरो विधिना मद्भाग्येनैव निर्मितोऽन्यथा समानगुणरूपयोर्योजना सुदुर्लभा, सकलगुणमषा मत्पुत्री यथाविभाति, तथैवाऽस्या वरोविधिना संपादितः, उभयो साहचर्यसततंसम्पद्यताम् , अनयो सौख्यपरम्पराविकला प्रतिदिनप्रवर्द्धताम् , गार्हस्थ्यस्थितिमनुभवतोरनयोःसौभाग्यमविचलमस्त्वितिस्वचेतसि भृशंमोदमानोनरेशोनिरावेश करमोचनसमये समयज्ञोमणिकुण्डलकिरीटप्रमुखमहाहमाभरणराशिंगजाश्वरथवसनाऽशनभाजनकाञ्चनरजतशयनादिकविविधवस्तुजातंजामात्रे प्रदत्तवान् , येन नृपस्योदारता सर्वत्र प्रासीसरत् । ततोवरकन्याम्या कंसारादनाचारोऽक्रियत, निजस्वामिनोमुखारविन्दविलोकमाना प्रेमलालक्ष्मीरपि भूयांसंप्रमोदंवभार, एतत्सं. | पादने केवलंविधातुर्महोपकारं सा मेने । इतोभवितव्यताऽनुसारेण तस्यादविणंलोचनमस्फुरत् । तेन सा भृशं चिन्तातुराजनि, | अहो ! अकस्मादयमाघातोमांपीडयिष्यतीति निजचेतसि चिन्तयन्ती सा कस्याऽप्यग्रे तद्वत्तान्तंनाञ्चीकथत् । अथैवंपरितो| षकरे विवाहमहोत्सवे निवृत्ते सिंहलाऽधीपेन विविधदानानि दचाऽर्थिजनाःसन्तोषिताः, प्रवराणि मङ्गलवाद्यानि परितः ॥६५॥ For Private And Personale Only
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy