SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ॥ चंद्रराज चरित्रम् ॥ ।। ५० ।। *K•->**<>**< +03/+K+***-- *--**-* www.kobarth.org भवतानिवासः ? श्रयमनुचितसम्बन्धश्च कथंसञ्जातः ? तदेतत्सकलमुदन्तमामूलचूलनिवेदयत माम्, ततोऽहं भवदनुकूलंविचारंविधास्ये, इति चन्द्रराजकथितं सापेक्षितंवचनंनिशम्य हिंसकः संक्षेपतोनिजवार्त्तावक्तुं प्रारभत, ॥ इति श्री चन्द्ररामचरित्रेद्वितीयोल्ला से प्रथमः सर्गः ॥ १ ॥ सिन्धुनामसरिद्वरायास्त सिन्धुनामादेशोऽस्ति, साऽऽपगाऽनेकधातुचित्रितशृङ्गमण्डितमहागिरेरुत्सङ्गान्निःसृत्य मवतरन्ती क्षीरोदधिसङ्गमोत्सुकेवधावमानादृश्यते, तदगाधवारिप्रवाहे सर्वतोचम्भ्रमन्त्योऽनेकनौका जलधेत्यकर्मकारिण्य इव लक्ष्यन्ते, विनिवृत्तक्रोधादिवैरिवारास्तदेशवासिनः सरलस्वभावा धर्मकर्माणि समाराधयन्ति, तत्प्रभावेणैव तत्रत्यः सागरोऽपि मिष्टजलो विभाति, तत्र च मुख्यतया सिंहलाभिधाना नगरीसमस्ति, या च निजर्द्धिप्रभावेण निर्जितामरपुरीविभवा मणिप्रकरकपिशीर्षकाऽम्बरतलचुम्बिवप्रवलयेन समूढनभोलक्ष्मीरशनाकलापलावण्या, परिखीकृतसागरान्तः पतितोष्णरश्मिचिम्बेन कलितोद्गतार्चिर्मालातिभासमान वडवानिविभ्रमा, अभ्रंलिहाभिर्जिन भवन शिखराग्रविभ्राजमानामान सौवर्ण कलशावलीभिरपन्हुत दिनमणिमण्डला, चञ्चत्कान्तिनिशाकरकान्तोपलनिवद्धनि केतना निशि निशापतिरश्मिसन्तत्या प्रणालिकाः पूरयद्भिः पयोभिवर्षासमयंग्रीष्मेऽपिव्यञ्जयन्तीवविभ्राजते, पुनर्यस्यां कोटीश्वर प्रासाद कोटीविराजमान केतुनिरुद्धसञ्चाराः सहस्रदीधितिरश्मयोविगतदोषा अपि सदोषा इव प्रवेशं न लभन्ते, कमलदल ललितजज्ञलब इव तरलाऽपि कलिताऽनुरागा वास्तव्यगुणकलाप संदानितेव परमा रमा यां सदैकभावेन भजति । रङ्गदनेकतुङ्गतुरङ्गमप्रखर खुराग्रनिर्घातविधुरां यद्वसुन्धरां राजमार्गविसारिणः प्रकटितमदधाराः कूजल्लीनालिमालाः करटिनः सदया इव करसीकरैः पङ्किलयन्ति । असङ्कीर्णविभ्राजच्चतुरशीतिविपणिकायां यस्यां धरापीठ For Private And Personal Use Only *--**-**-*K***OKK Acharya Shri Kasagarsun Gyanmandir द्वितीयोला सेद्वितीयः सर्गः ॥ ।। ५० ।।
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy