________________
दर्शनोत्कण्ठितं मे मानसमयैवशान्तम् । शरीरमात्रेण दूरस्थितोऽपि भवान्मदीयहन्मन्दिरं नात्यातीत् । दूरयायी प्रभाकरः सरोजजातमिव श्रुतपूर्वस्त्वद्गुणबातोभृशमस्मानञ्जयतिस्म, अवदातगुणाः सद्विद्याश्वसुगुप्ता अपि स्वयमेर प्रकाशन्ते; यदुक्तम्-यदि सन्ति गुणाःपुंसां, विकसन्त्येव ते स्वयम् । नहि दिवाकरोद्योतः, स्थीयतेऽन्तर्हितः क्वचित् ॥ १॥ तथा च वार्ता च कौतुकवती विशदा च विद्या, लोकोत्तरः परिमलश्च कुरङ्गनाभेः।
तैलस्यबिन्दुरिव वारिणि वार्यमाण-मेतत्रयं प्रसरतीति किमत्र चित्रम् ॥१॥ राजकुमार ? अद्य साक्षात्वदर्शनोद्भूतोऽप्रमेयःप्रमोदोऽननुभूतपूर्व प्रसादयतिमञ्चेतः । मे मनोवाञ्छितञ्चाद्यैवसफलंजातम् , यतः-सर्वदा सुखदं लोके, यदिष्टंयस्य संमतम् । तदलाभेकुतःसौख्यं, लाभतस्तस्यकिंपुनः ॥ १॥ " यो यस्य चित्ते न स तस्य रे " इतिकेनचित्पठितं वाक्यं तत्सत्यं-प्रतीयते, तथाचोक्तम्-चकोरस्य शशाङ्कस्य, मयूरवारिवाहयोः । महदन्तरमस्त्येव, सानिध्य स्नेहतः पुनः ।। १ ॥
तस्मादूरस्थितमपि भवन्तमन्वहं स्मरता मया किमद्य नासादितम् ? प्राक्तनसम्बन्धमाजो यन्मिथःस्मरणं तत्र कोविशेषः । सम्बन्धमन्तराऽपियोऽनिशंस्मर्यतेस मानवमणिःप्रशस्तिमर्हतिक्षीरोदधिशशाङ्कसम्बन्धोहिलोकविश्रुतः, सितेतरपक्षे | निशामणिव्यसनोदयेचीरसागरवीणोत्साह इव दुर्बलतां धत्ते, पूर्णेच निशाकरे कल्लोलकराऽभिनयेन नृत्यन्निव स तदाश्लेषसुखमनुभवितुमिवोर्ध्व गच्छन्नभिलक्ष्यते । नृवरेन्द्र ? सम्बन्धेदूरतः सत्यपि शीतरश्मिरुधव कुमुदवनं प्रबोधयति, | एवमनेकशोमायावचनैस्तं विलोभ्य सिंहलनरेशोनिजासनेऽस्थापयत् । स्वयश्चान्यविष्टरे समारूढः । अहो ! सुकृतिनो
For PvAnd Personale Only