________________
Shri Mahavir Jain Aradhana Kendra
←→*****************+-+CU
www.kobarth.org
॥ अथ द्वितीयोल्लासः ॥ २ ॥
शान्ताऽशिवं शान्ततमोत्रितानं, निशान्तमाद्यं सुखसन्ततीनाम् । जगद्विभुं षोड रातीर्थनाथं, नमामि पीयूषरसप्रदं तम् ॥ १ ॥ श्रीमच्चन्द्रनरेशस्य, चरित्रे रसदायिनि । सर्वशील कलोपेतो- द्वितीयोल्लास उच्यते ॥ २ ॥ चरित्ररचनाsपूर्वा, रचिता यत्नपूर्वकम् । यदा गुणिगणग्राह्या, भवत्येव फलेग्रहिः ॥ ३ ॥ जगत्यशेषवाचोऽपि, हारिण्यो विविधाः कलाः । पयस्विनी सहस्रेषु, कामधेनुः प्रशस्यते ॥ ४ ॥ ताम्रमेति सुवर्णत्वं रसमासाद्य सस्वरम् । वचनं रसिकं तद्व-द्विरसेषु रसप्रदम् ।। ५ ।। सुभाषितं मनोहारि, वचनं विशति क्षणात् । विरसानामपिस्वान्त-गुहायां मोददायकम् ॥ ६ ॥ मिष्टस्निग्धरसोदग्रं, प्रबन्धं चन्द्रभूपतेः । सभ्याः शृण्वन्तु सप्रेम, चमत्कारमहालयम् ॥ ७ ॥
|| अथ चन्द्रराजःपुरं प्रविश्य यावत्प्रथमांप्रतोलींप्राविशत्तावत्तत्रस्थिता राजसेवका अभ्युत्थाय विधिवत्प्रणामश्वविधाय प्रोचुः, चन्द्रराज ? विजयस्व, स्वागर्ततेऽस्तु, गुणरत्नानात्वं करण्डकोऽसि, भवदागमनेनवयमद्यकृतार्थाजाताः, युष्मदर्शनेनास्माकं महानन्दोऽजनि प्रतिपच्चन्द्रमिव त्वदागमनंप्रतीक्षमाणावयमत्रस्थिताः । इदानीमस्मास्वनुग्रहं विधाय सिंहल पुरस्वामिनः कनकरथनृपस्य सान्निध्यंभजस्व, चरणविन्यासेन तत्सदोगृहञ्च पवित्रीकुरु, इतितत्सेवकजनोदित सुभाषितंसमाकर्ण्यचन्द्रश्चेतसि व्यचिन्तयत्, अहोकिमेतत् ? परचित्तवेदिभिरिवैतैरहं कथं विज्ञातः ? किंवानामसादृश्येन मामेवमवादिषुः, अपरं चन्द्रं प्रतीक्षमाणा
For Private And Personal Use Only
Acharya Shri Kasagarsun Gyanmandir
1<*++11+++******++++