SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ ShriMahavir Jain ArachanaKendra Achanh sagan Gyaan आदर्शाच्छस्फटिकाभेषु तासां हृदयस्थलेषु तस्य कुमारस्य प्रतिबिम्बं समाक्रमत, ततस्ताः प्रमदाः स्मिताननाः सपरिहासं || सभयं सविश्वासं सासूयं सविलासं कामचेष्टासहितं सस्पृहं मिथःसंलापं चक्रु:-सचरगमने! बिलोकने कौतकितां मां * सहनय, निरीक्षणोत्सुके ? गृहाणेदं पतितं तवोत्तरीयवसनम् । चपलमानसे मुखकमलमाच्छादयन्ती तवकेशच्छटां निवारय, मूढमते ? त्वदीयामिमा चन्द्रलेखां गृहीत्वा ब्रज, कामान्धलोचने ! पूजार्थ समानीतानामेपां कुसुमानामाघातेन पतिष्यसि! मदोन्मते ? तबकेशपाशं तु समीचीनं कुरु, कुमारदर्शनोत्सुके ? तवकटिमेखला स्थानवर्तिनीं विधत्स्व, पापाधमे ? 4 गण्डस्थलस्थिते चश्चले दन्तपत्रिके दूरीकुरु, मुग्धे! तवपतितमिदं दन्तपत्रं गृहाण, यौवनाभिमानिनि ! तवपयोधरकुम्भी वस्त्राचलेन समाच्छादय, यत इमे सर्वेजनास्त्वां निरीक्ष्य हसन्ति, निलेजे ! सञ्चलितं तत्र वस्त्रं तु परिधेहि, मृपाचातुर्यधारिणि ! सच्चरं गच्छ, विलोकनरसिके! मां दर्शय, सन्तोषहीने ! कियत्कालं वं प्रेक्षिष्यसे ? ममाऽप्यवसरं देहि, तरलमानसे! किश्चित्तवपरिजनस्यापेतां विधेहि, पिशाचिनि! तवेदमुत्तरीयं वसनमधःपतद्विलोकमाना जनाः कृतभूरिहास्या स्त्वदङ्गानि विलोकयन्ति, प्रेमान्धलोचने ! इमास्तेप्रियसखीरपि त्वं न गणयसि! रे कुटिलगामिनि! हृदयतापमुत्पाद्य मुधा त्वं जीवसि, मिथ्याविनये! किमर्थ त्वं प्रच्छन्नतया कटाक्षबाणान्प्रक्षिपसि! निर्भरयौवने ! स्वस्थमनसा विलोक्यतां वक्षोजभारेण मां कुतः पीडयसि ! क्रुद्धमानसे ! स्वमग्रे याहि, पश्चादहमागमिष्यामि, मात्सर्योपहत H स्वभावे? त्वमेकाकिन्येव वातायनानि निरुध्य स्थास्यसि किमु! प्रकटीकृतमन्मथविकारे। इदं ममोत्तरीयं किमाहरसि! नेदं त्वदीयम् , प्रमोदमत्ते ! किञ्चिदुचितं समाचर, अधीरलोचने ! गुरुजनसमर्श निर्लज्जतया सचरं किं धावसि ? For Private And Personlige Only
SR No.008515
Book TitleAjitsen Shilwati Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year1928
Total Pages244
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy