SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ ShriMahavir Jain ArachanaKendra Achanh sagan Gyaan मिश्च भोजनं विहितम् , ततः शीलवत्या कथितं यक्षाः ? ताम्बूलपुष्पादिकं सर्व सिद्ध्यताम् , एवं भवत्विति यथाः प्रोचुः, तदानीं पूर्वप्रसाधितताम्बूलकुसुमावलेपनवसनाऽऽभरणादिचतुर्लचद्रव्यादिकसकलसामग्री तत्राऽऽगता, एतत्सर्वमजितसेनेन नृपायोपदीकृतम् । एतत्सर्व व्यतिकरं साचाद् विलोकमानो भूपतिश्चेतसि चिन्तयतिस्म, अहो ! इयंतुकाऽप्यपूर्वासिद्धिर्विद्यते, गौपान्ते स्थितायास्तस्या वचनमात्रेण सद्यः सर्व सियति, एवं कौतुकितो नृपतिः शीलवतीमपृच्छत् , भद्रे ? इदं किमाश्चर्य ! सा जगाद , देव ? चत्वारो यचा मे सिद्धिदायकाः सन्ति ते सर्व संपादयन्ति, ततो राजाऽवदत्, भद्रे ? एतान् यचान् मादेहि, सावभाण-देव? सुखेन-तान् गृहाण,? परंतु पश्चात्तानहं प्रेषयिष्यामि, नृपतिः प्रमुदितमानसः स्वाश्रमंजगाम, इतः शीलवती तान् चतुरश्चन्दनेन विलिप्यपुष्पैश्चपूजयित्वा पृथक्पृथक्मञ्जूषागतान्विधाय संध्यासमयेतान् शकटे निक्षिप्यतूर्यरवैः सह राजभवनं निनाय, प्रभाते जातेऽद्यभोजनादिकं यक्षा दास्यन्तीतिविदित्वा नृपतिना सूदा रसवती कर्तुं निषिद्धाः, तावद् भोजनसमयो जातः, नृपतिना कुसुमादिभिः पूजयित्वा चतुर्णा यक्षाणां सन्निधौ स्थित्वा कथितं रसवती | सिझ्यता, तदातैरुक्तम् , एवं भवतु, इत्युक्तेऽपि किश्चिदपि न जातम् , ततोविलक्ष्यीभूतो नरेशस्ता मञ्जूषा उद्घाटयामास । तदानीं तासुस्थिताश्चत्वारो मानवा अदृश्यन्त, अतिक्षुधया नष्टरक्तमांसाः, स्पष्टास्थिपञ्जराः, प्रकटितशिराः, दरीवनिम्नोदराःप्रक्षीणगण्डस्थलाः, म्लानलोचनाः, दुर्गन्धशीतपवनेन निस्तेजःशरीरकाः, मनोविषादेन च हीनप्रतापास्तेऽभूवन् , || इवृशावस्थाँस्तान्विलोक्य नृपतिर्जगाद, अहो ! इमे यक्षास्तु न सन्ति, किन्तु राचसा विद्यन्ते, तेऽपिराजानमवोचन्, देव ? वयं यक्षा वा राचसा नभवामः, किन्तु कामावरादयस्तव सुहृदःस्मः, इत्यभिधाय ते नृपतेश्वरणयोः पतिताः, ततो नृपे For Private And Personlige Only
SR No.008515
Book TitleAjitsen Shilwati Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year1928
Total Pages244
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy