SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सोऽहं तत्त्वमसि व्यक्तः, सोऽहं सोऽहं स्मराम्यहम् । विस्मृतोऽस्मि जगत्सर्व, रागद्वेषमयं खलु ॥१०॥ गगनस्येव निःसहं, चिदानन्दमयं निजम् । अनुभवामि जानामि, साक्षात्कारं निजाऽऽत्मनः॥१०१॥ विश्वब्रह्मस्वरूपेण, साक्षादनुभवो मया । समाधिभावलीनेन, कृतः प्रत्यक्षमाऽऽत्मनः ॥१०२॥ ग्राह्यं त्याज्यं च बाह्येषु, करोमि नैव मोहतः। शुभाशुभविचारेषु,-ग्राह्यं त्याज्यं न मे समात्॥१०३॥ ग्राह्यं त्याज्यं च नो स्वस्मिन् , ब्रह्मोपयोगिनश्च मे। ग्राह्यत्याज्यागतो दूरं, ब्रह्माऽस्मि सर्वशक्तिमान् ॥१०४॥ अभिप्राया जगल्लोकैः, कल्पिता मित्रशत्रुभिः । मयि शुभा अयोग्याश्च, तत्र नाहं न ते मम ॥१०५॥ शुभाभिप्रायतो हर्ष, करोमि न कदाचन । अशुभान्नास्ति शोको मे, द्वाभ्यां भिन्नोऽस्मि चेतनः १०६ जगल्लोका न जानन्ति, मत्स्वरूपं विलक्षणम् ज्ञातारो मत्स्वरूपास्ते, परापरप्रकाशिनः ॥१०७ ॥ विस्मर !! नैव ते रूपं, स्मराऽऽत्मानं प्रतिक्षणम् । स्वादस्व स्वोपयोगेन, ब्रह्मानन्दं चणे चणे॥१०८॥ सुखं पौद्गलिकं यत्त, पुद्गलान्नैव जायते। पात्मनसुखं तत्तु, स्वाऽऽत्मतो हि प्रजायते॥१०॥ For Private And Personal Use Only
SR No.008502
Book TitleAdhyatma Geeta
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages206
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati, Spiritual, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy