SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra " www.kobatirth.org ( १३ ) निर्विकल्पं परब्रह्म, क्षणमात्रं मुहुर्मुहुः । पूर्णानन्दस्वरूपेण, मयाऽनुभूयते मयि ॥ १२० ॥ निर्विकल्पस्वरूपे तु, अहं त्वं तन्नभासते । ॥ १२२ ॥ " ज्ञाता ज्ञानं तथा ज्ञेयं, तदैक्यं वर्तते स्वयम् ॥ १२१ ॥ सविकल्पं परब्रह्म, मुहुर्मुहु निजाऽऽत्मना । चिदानन्दस्वरूपेण, भृशं मयाऽनुभूयते श्रात्मैव परमाऽऽत्मास्ति, स्वाऽऽत्मना वेद्यते खलु । स्वाऽऽत्मानमन्तरा स्वान्य, - ज्ञाता कोऽपि न विद्यते । १२३ । निजाऽऽत्मगुणपर्याय, - रक्षणं धर्म उच्यते । श्रात्मगुणस्य नाशो यो, हिंसैव कथ्यते बुधैः ॥ १२४॥ साधनधर्मतो भिन्नः साध्यधर्मो निजाऽऽत्मनि । आत्मतो नैव भिन्नोऽस्ति, स्वधर्मस्तु निजाऽऽत्मनि । १२५ बाह्यसाधनधर्माणां - भेदेषु बाह्यदृष्टितः । अज्ञानिनः प्रमुह्यन्ति, प्रमुह्यन्ति न कोविदाः ॥ १२६ ॥ शुद्धात्मा साध्यते सद्भि-रसंख्यधर्मसाधनैः । देशकालदशाबोध, - रुचिवैचित्र्यधारकैः शुद्धप्रेम्णा प्रलीनास्ते, भवन्ति हि निजाऽऽत्मनि । आत्मसमं न जानन्ति चक्रवत्र्यादिकं पदम् ॥ १२८ ॥ विश्वरूपं निजाSSत्मानं, भावयन्तो ह्यपेक्षया । श्रात्मवद्विश्वजीवाँश्च पश्यन्ति ब्रह्मभावतः ॥ १२६ ॥ ॥ १२७ ॥ " Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only
SR No.008502
Book TitleAdhyatma Geeta
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages206
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati, Spiritual, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy