SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परदेशममत्वे हि नष्टे ज्योतिः प्रकाशते । स्वत प्रात्मस्वरूपस्य महोद्योतः प्रकाशते ॥६६॥ पुद्गलानां पृथक् जाति मम जाति स्ततः पृथक् । भिनजात्या च कः संग स्ततः खिन्नो भवाम्यहम् ।। ६७॥ अनादिकालतः संग स्तत्र मैत्रममन्यत । रागद्वेषस्य योगेन विचित्र देहमासदत् ॥ ६८ ॥ आत्मपुद्गलसंगस्तु दुग्धसलिलसंगवत् । अनादिकालतो जात: कुर्वन्कर्म च कुत्सितम् ॥ ६ ॥ अशुद्धपरिणामेन कर्ता कर्म च कथ्यते । शुद्धपरिणते र्योगै-रात्मा शुद्धो निरंजनः ॥ १०० ॥ पुद्गलस्याशनाधाने वासो गेहश्च पुद्गले । तत्र वासं मुधा कृत्वा सुखबुद्धिं विवेद च ।। १०१ ।। इदानी किं रमे मोहे यस्य क्रूरगतिः किल । तन्मध्ये संगतो नूनं व्याकुलोऽहमहोऽभवम् ॥ १०२ ॥ स मोहो नास्ति मे मित्रं तत्स्वभावो न शोभन: हाहा तेषां हि संगेन ह्येवं जाता मम स्थितिः ॥ १०३ ॥ चतुरशीविलक्षाङ्क, हट्टागतिचतुष्पथे । बहुधोत्पद्य मृत्वा च ह्यपारदुःख माप्तवान् ॥ १०४ ।। रागः पुद्गलसंगेऽस्ति रोगः पुद्गलसंगमे । पुद्गलमोहतः शोकः पुद्गलेष्वरुची रुचिः ॥ १०५ ॥ गृहपुद्गललोमेन युद्ध्यन्ति मनुजाः स्वयम् । राजानः सञ्जनाः श्रेष्ठा व्यर्थ जन्म धरन्ति ते ॥ १०६ ।। स्वगुणानां भवेद्धानि-मोहमैत्र्यात्सुनिश्चिता । मूढाऽऽत्मानोऽशुभज्ञाना-स्तेऽरण्यगवयैः समाः ॥ १०७॥ For Private And Personal Use Only
SR No.008502
Book TitleAdhyatma Geeta
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages206
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati, Spiritual, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy