SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ तिलकमञ्जरी । गाथासु, विमृश्यमानेषु बाधानुपदसंपादितोत्सेकेषु बिन्दुमात्राक्षरच्युतकश्लोकेषु, हस्यमानेषु दीर्घकालानुभूतनिष्फलचिन्तामौनेषु प्राज्ञंमन्येषु, प्रकाश्यमाने साधुवादविधिना बुधानां बोधरभसे, विजृम्भमाणे निर्भरं सभ्यानां कौतुकरसे काव्येष्वतीय रसिकः सर्वदा निकटवर्ती कुमारस्य नर्मपात्रं सकलराजपुत्राणां मञ्जीरनामा बन्दिपुत्रः किञ्चिदुपसृत्य हरिवाहनमवोचत् [ख] - ' कुमार ! प्रक्रमागतमेव किञ्चिद् विज्ञाप्यसे । कुरु क्षणमात्रमवधानदानेनानुग्रहम्, अस्यैव समनन्तरातिक्रान्तस्य मधुमासस्य शुद्ध त्रयोदश्यामहमहमिको पदर्शित निजविभवविच्छ्र्देन नगरीनिवासिना भुजङ्गलोकेन भक्त्या प्रवर्तितं यात्रोत्सवमवेक्षितुमिदमेव सर्वतोविरचितविचित्रवस्त्रध्वजवितानमात्तकनकशृङ्गवेश्याङ्गनाभुजङ्गजनपरस्परारब्धजलसेकयुद्धं भगवतो मकरध्वजस्यायतनमागतोऽस्मि, विस्मयस्मेरचक्षुषा च प्रविशता मया प्राङ्गणसहकारपादपस्य मूले मृणालसूत्रवलयितग्रीवा विभागं मध्यभागविन्यस्तमुग्धस्तनमुखमुद्रेण स्त्यानतुहिन पाण्डुरत्विषा शोषाधिगतकाठिन्येन चन्दनपङ्कवेदिकाबन्धेन २४१ मानासु; पुनः बाधानुपदसम्पादितोत्सेकेषु अनुपदं प्रतिपदम्, सम्पादितः, बाधस्य अर्थबोधव्याघातस्य, उत्सेक:- आधिक्यं यैस्तादृशेषु, बिन्दुमात्राक्षरच्युतकश्लोकेषु बिन्दुच्युतः, मात्राच्युतः, अक्षरच्युत इति बिदुमात्राक्षरच्युतास्ते एव बिन्दुमात्राक्षरच्युतकाः, तादृशेषु लोकेषु विमृश्यमानेषु विविच्यमानेषु । पुनः दीर्घकालानुभूतनिष्फल चिन्ता मौनेषु दीर्घकालं चिरकालम्, अनुभूतं - प्रतीतम्, निष्फलचिन्तया निष्फलभावनया, मौनं- मूकत्वं येषां तादृशेषु, प्राज्ञम्मन्येषु आत्मानं प्राज्ञ-पण्डितं मन्यन्ते न तु पण्डिता ये ते प्राज्ञम्मन्याः तेषु हस्यमानेषु उपहासास्पदतामापाद्यमानेषु । पुनः बुधानां पण्डिताना, बोधरभसे बोधवेगे, अर्थबोधाविलम्बे इति यावत् साधुवादविधिना प्रशंसाविधानेन, प्रकाश्यमाने प्रकटीक्रियमाणे । पुनः सभ्यानां सभायां गोष्ठयां साधुः सभ्यः, तेषां कौतुकरसे काव्याला पकुतूहलात्मक र से, निर्भरम् अत्यन्तम्, विजृम्भमाणे प्रकाशमाने, मञ्जीरनामा मञ्जीरसंज्ञकः, बन्दिपुत्रः खुतिपाठकपुत्रः किञ्चित् ईषत् उपसृत्य समीपमागत्य, हरिवाहनं तदाख्यं मेघवा इननृपकुमारम् अवोचत् उक्तवान् कीदृश: ? काव्येषु काव्यविषयेः अतीव रसिकः अत्यन्तानुरागी, पुनः सर्वदा सर्वकालम्, कुमारस्य हरिवाहनस्य, निकटवर्त्ती पार्श्ववतीं सकलराज - पुत्राणां समस्तनृपकुमाराणाम्, नर्मपात्रं परिहासास्पदम् [ख] । किमवोचदित्याह कुमार ! भो नृपात्मज !, प्रक्रमागतमेष प्राविकमेव, किञ्चित् किमपि वृत्तम्, विज्ञाप्यसे निवेयसे, अवधानदानेन मनोवृत्तिदानेन, क्षणमात्रं मुहूर्त मात्रम्, अनुग्रहं कृपां कुरु, विषयान्तरान्निवर्त्य वक्ष्यमाणवृत्तश्रवणे मनः समाधेहीत्यर्थः; समनन्तरातिक्रान्तस्य अव्यवहितव्यती तस्य, मधुमासस्य चैत्रमासस्य, शुद्धत्रयोदश्यां शुक्लत्रयोदशतिथौ, अहमहमिकोपदर्शितनिज विभवविच्छुदैन अहमहमिकया- पारस्परिकस्पर्धया, उपदर्शितः, निजविभवविच्छदः - स्ववित्तव्ययो येन तादृशेन, नगरीनिवासिना अयोध्यावास्तव्येन, भुजङ्गलोकेन विटजनेन, भक्तया कामदेवप्रीत्या, प्रवर्तितं प्रारब्धम्, यात्रोत्सवं कामदेवमन्दिरयात्रोत्सवम्, अवेक्षितुं द्रष्टुम्, सर्वतः परितः, विरचितविचित्रवस्त्रध्वजवितानं विरचितः - निर्मितः, विचित्रवाणी ध्वजःपताका, वितानः-उल्लोचश्च यद्वा ध्वजरूपो वितानः, ध्वजानां वितानः-विस्तारो वा यस्मिंस्तादृशम्, पुनः आत्तकनकशृङ्गवेश्याङ्गनाभुजङ्गजन परस्परारब्धजलसेक युद्धम् आत्तं प्राप्तम्, गृहीतमित्यर्थः, कनकशृशं सुवर्णमयनलिका याि स्तादृशीभिः, वेश्याङ्गनाभिः - वेश्यारूपाभिः स्त्रीभिः, भुजङ्गजनैः - विटजनैश्व, परस्परम् आरब्धं प्रवर्तितम् जलसेकयुद्धंजलसेचन संप्रामो यस्मिंस्तादृशम्, भगवतः पूज्यस्य, मकरध्वजस्य कामदेवस्य इदमेव प्रत्यक्षभूतमेव, आयतनं मन्दिरम् आगतोऽस्मि उपस्थितोऽस्मि । च पुनः प्रविशता प्रवेशं कुर्वता, विस्मयस्मेरचक्षुषा विस्मयेन - आश्चर्येण, स्मेरं-विकस्वरम्, चक्षुर्यस्य तादृशेन मया, प्राङ्गण सहकारपादपस्य मन्दिर प्राङ्गणवर्तिचूतहृक्षस्य मूले अधस्तात्, ताडीपत्रखण्डं तालपत्र खण्डम्, अवलोकितं दृष्टम् कीदृशम् ? मृणालसूत्रवलयित ग्रीवाविभागं मृणालसूत्रेणबिसतन्तुना, वलयितः-वेष्टितः, ग्रीवाविभागः - कण्ठस्थलं यस्य तादृशम् ; पुनः मध्यभाग विन्यस्तमुग्धस्तनमुखमुद्रेण मध्यभागे-मध्यस्थले, विन्यस्ता - रचिता, मुग्धस्य- सुन्दरस्य, स्तनमुखस्य मुद्रा - प्रतिकृतिर्यस्मिंस्तादृशेन, पुनः स्त्यानतुहिन पाण्डुरत्विषा स्त्यानं घनीभूतम्, यत् तुहिनं - हिमम्, तद्वत् पाण्डुरा-पीतवर्णमिश्रितशुक्लवर्णा, विट् - कान्तिर्यस्य तादृशेनं, पुनः शोषाधिगतकादिन्येन शोषेण-शुष्कतया, अधिगतं काठिन्यं - घनीभावो येन तादृशेन, चन्दनपङ्कवेदिका - ३१ तिलक०
SR No.008456
Book TitleTilakamanjiri Part 2
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi, Shantyasuri, Lavanyasuri
PublisherVijaylavanyasurishwar Gyanmandir Botad
Publication Year
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy