________________
तिलकमञ्जरी।
२२१ लोहितापमानवपुरुष्णदीधितिः [श] । एवं च प्रवृत्ते प्रत्यूषसि विपक्षविजयाभिलाष इव विलीने तमसि, प्रसरति दिगन्तरेषु देवस्य प्रताप इव पातङ्गे महसि सहसैव प्रत्यबोधि सकलमपि तद्विरोधिसैन्यम् । आसावपि कुमारः प्रनष्टनिद्राविकारो 'वज्रायुध ! मा विषादं व्रज, विश्रब्धमेहि, न तावत् प्रहरामि यावश्च त्वया न प्रहृतम्' इत्यविशदाक्षरं पूर्ववासनावशेन व्याहरन् सुचिरनिद्राविमर्दजडपुटोदरमुदमीलयदीक्षणयुगलम् । अवलोक्य च पुरः परिवेष्टितरथमरातिलोकमात्मानं च तदवस्थमुपजातगुरुविषादो लज्जया पुनर्मोहान्धकारमविक्षत् [ष।
सेनापतिरपि तेन तस्यातर्कितेनासंभावनीयेनादृष्टपूर्वेण प्रत्युज्जीवनेन जनितविस्मयः प्रहर्षमन्दतारकेणानन्दजलबिन्दुसेकादिव विकसता नयनारविन्दद्वयेनोद्भासमानस्तत्कालमासादितमहालाभमिव प्राप्तसकलकल्याणमिव समृद्धाखिलकाममिव फलिताशेषगुरुजनाशिषमिव कृतार्थमात्मानं मन्यमानो मुहूर्त स्थित्वा तस्मिन् क्षमे भयतरलेक्षणस्य विपक्षकक्षीकृतस्वामिदर्शनविषण्णबुद्धेरन्धीभूतसकलदिशः कान्दिशीकस्य शत्रुलोक
टिप्पनकम्-कान्दिशीकः-भयद्रुतः [स]।
इत्यर्थः [श]। एवं च अनेन प्रकारेण च, प्रत्यूषसि प्रभाते, प्रवृत्ते प्रारब्धे, विपक्षविजयाभिलाष इव रिपुपराजयमनोरथ इव, तमसि अन्धकारे, विलीने नष्टे सति । पुनः देवस्य भवतः, प्रताप इय प्रभाव इव, पातडे पतङ्कः-सूर्यः, तत्सम्बन्धिनि, महसि तेजसि, दिगन्तरेषु दिमध्येषु, प्रसरति विस्तारमासादयति सति, सहसैव शीघ्रमेव, तद्विरोधिसैन्यं तद्विपक्षसैन्यम् , प्रत्यबोधि अजागरीत् । असौ प्रकृतः, कुमारोऽपि नृपात्मजोऽपि, प्रनष्टनिद्राविकारः क्षीणनिद्रादोषः सन् , जागरितः सन्निति यावत् , वज्रायुध! तत्संज्ञकसेनापते !, विषादं खेदम् , मा ब्रज न प्राप्नुहि । विस्रब्धं सविश्वासं यथा स्यात् तथा, एहि आगच्छ । तावत् तावत्कालपर्यन्तम् , न प्रहरामि बाणप्रहारं करोमि, स्वया, यावत् यावत्कालपर्यन्तम् , न प्रहृतं प्रहारः कृतः, इति इत्थम् , अविशदाक्षरम् अविशदानि-अव्यक्तानि, अक्षराणि यस्मिंस्तादृशं यथा स्यात् तथा, पूर्ववासनावशेन मूच्र्छाप्राकालिकसंस्कारवशेन, व्याहरन् कथयन् , सुचिरनिद्राविमर्दजडपुटोदरं सुचिरनिदायाः-चिरकालिकनिद्रायाः, विमर्दैन - व्याप्त्या, जडं-निष्पन्दम् , पुटयोःनेत्रपुटयोः, उदरं-मध्यं यस्य तादृशम् , ईक्षणयुगलं नेत्रद्वयम् , उदमीलयत् उन्मीलितवान् । च पुनः, पुरः अग्रे, परिवेष्टितरथं परिवेष्टितः-आक्रान्तो रथो येन, पक्षे यस्य तादृशम् , अरातिलोकं शत्रुजनम् , आत्मानं च खं च, तदवस्थं शत्रुमध्यपतितम् , अवलोक्य दृष्ट्वा, उपजातगुरुविषादः उत्पन्नमहाविषादः, लज्जया लजावशेन, पुनः मोहान्धकारं मूरूिपान्धकारम् , अविक्षत् प्रविष्टवान् , प्राप्तवानित्यर्थः [ष ]॥
सेनापतिरपि बजायुधोऽपि, मुहूर्त क्षणम् , स्थित्वा स्थिरो भूत्वा, तस्मिन् दुर्घटनामये, क्षणे, समन्तात् सर्वतः, अभयप्रदानपटहं शत्रुसैनिकभयाभावद्योतकवाद्यविशेषम् , शत्रुलोकस्य शत्रुजनस्य, आश्वसनार्थम् आश्वासनफलकम् , अदापयत् दापितवान् , वादितवानित्यर्थः । कीदृशः ? तस्य नृपकुमारस्य, तेन अनुपदमुपवर्णितेन, अतर्कितेन आकस्मिकेन, असम्भावनीयेन सम्भावयितुमप्यशक्येन, अदृष्टपूर्वेण पूर्व क्वचिददृष्टेन, प्रत्युज्जीवनेन पुनरुजीवनेन, जनितविस्मयः उत्पन्नाश्चर्यः; पुनः प्रहर्षमन्दतारकेण प्रहर्षेण-अतिहर्षेण, मन्दे तारके-कनीनिके यस्मिंस्तादृशेन, तथा आनन्दजलबिन्दुसेकादिव आनन्दजलबिन्दुभिः सेचनादिव, विकसता विकासमासादयता, नयनारविन्दछयेन नयनरूपकमलद्वयेन, उद्भासमानः प्रकाशमानः; पुनः तत्कालं तत्क्षणम् , आसादितमहालाभमिव प्राप्तमहालाभमिद, पुनः प्राप्तसकलकल्याणमिव आसादिताशेषशुभमिव, पुनः समृद्धाखिलकाममिव सम्पन्नसमस्ताभिलाषमिव, पुनः फलिताशेषगुरुजनाशिषमिव फलिताः-सफलतां गताः, अशेषाः-समस्ताः, गुरुजनानां श्रेष्ठलोकानाम् , आशिषः शुभकामना यस्मिंस्तादृशमिव, आत्मानं खं, कृतार्थ सिद्धार्थ मन्यमानः । कीदृशस्य शत्रुलोकस्य ? भयतरलेक्षणस्य भयचञ्चलनेत्रस्य; पुनः विपक्षकक्षीकृतखामिदर्शनविषण्णबुद्धः विपक्षेन-हरिवाहनसैन्यजनेन, कक्षीकृतस्य-बद्धस्य, खामिनो दर्शनेन विषण्णा-विषादप्रस्ता बुद्धिर्यस्य तादृशस्य; पुनः अन्धीभूतसकलदिशः अन्धीभूताः-अन्धकारव्याप्ताः,