________________
विलकमलरी।
२१५ अत्रान्तरे लब्धरोषनिर्यातनावसराणि 'हत हत, उपसर्पतोपसर्पत, गृहीत गृहीत' इत्यनवरतकृतकोलाहलानि बद्धवेगद्विरदपृष्ठशारिदोलायमानसकलसायासप्रासपूलानि चलितरथचक्रचीत्कारचकितशाकिनीचक्रवालार्धावलोकितान्युद्गर्णकृपाणपादातपादपातकम्पितधराण्यधावन्त सर्वतोऽस्मत्सैन्यकानि [व]
सेनाधिपस्तु तस्य महात्मनस्त्रिभुवनाभिभाविना भुजवीर्येण निर्व्याजमावर्जितमनास्तानि तथाविधप्रकटितसंरम्भाणि सर्वतः प्रधावितान्यवलोक्य संभ्रमोरिक्षप्तबाहुयुगलो गद्गदिकागृह्यमाणगलनिर्गलदपर्याप्ताक्षरं 'रे रे स देवस्योत्तरकोशलेश्वरस्य पादपङ्कजेभ्यः शपते, योऽस्मै कुप्यति' इति स्वशक्त्या व्याहरन् पुनः पुनरादिष्टसूतसत्वरप्रवर्तितरथ्येन रथेन तं प्रदेशमागच्छत् [भ] । अद्राक्षीच्च तं समासन्नदीपिकालोकप्रकाशितमासक्तसान्द्रसमररेणुधूसराभिरामवपुषम् , औषधीनाथमिव पार्वणमस्तपर्वतप्रस्थे पृथुनि स्थपृष्ठे पर्यस्तम् ,
टिप्पनकम्- रथ्या:-अश्वाः [भ] । तापिच्छं-काकतुण्डिका [म] ।
त्सङ्गं रथमध्यम् , अगमत् गतवान् [क] ॥ अत्रान्तरे अस्मिन्नवसरे, अस्मत्सैन्यकानि अस्मत्सैन्यसमूहाः, सर्वतः सर्वदिक्षु, अधावन्त धावन्ते स्म; कीदृशानि ? लब्धरोषनिर्यातनावसराणि लब्धः-प्राप्तः, रोषेण-क्रोधेन, निर्यातनाया:-शत्रुपीडनायाः,अवसरो यस्तादृशानि पुनः हतहत मारयत मारयत, उपसपत उपसपेत उपगच्छत उपगच्छत, शत्रूनिति शेषः, गृहीत गृहीत, अस्त्राणीति शेषः, इति इत्यम् , अनवरतकृतकोलाहलानि अनवरतं-निरन्तरम्, कृतः कोलाहलो यस्तादृशानिः पुनः बद्धवेगद्विरदपृष्ठशारिदोलायमानसकलसायासप्रासपूलानि बद्धवेगा:-श्रितत्वराः, ये द्विरदाः-हस्तिनः, तेषां पृष्ठशारिषु-पृष्ठाधिष्ठितपर्याणेषु, दोलायमानानि-सच्चलन्ति, सकलानां समस्तानाम् , सायानां बाणानाम् , आसाना-विक्षेप्यास्त्रविशेषाणाम् , प्रासाना-कुन्तानाम् , पूलानि-भारा येषु तादृशानिः पुनः चलितरथचक्रचीत्कारच कितशाकिनीचक्रघालार्धावलोकितानि चलितानि यानि रथचक्राणि-रथसमूहाः, तेषां चीत्कारेण-ध्वनिविशेषेण, चकितं-विस्मितम्, शाकिनीना-देवीविशेषाणाम्, यचक्रवालं-समूहस्तेन, अर्धम् , अवलोकितानि-दृष्टानि पुनः उदगर्मकृपाणपादातपादपातकम्पितधराणि उद्गूर्णाः-उत्थापिताः, कृपाणाः-खड्गा येन तादृशस्य, पादातस्य-पदामिसैनिक. समूहस्य, पादपातेन-चरणाघातेन, कम्पिता-आन्दोलिता, धरा-पृथ्वी यैस्तादृशानि [ब]॥
सेनाधिपस्तु सेनानायकस्तु, पुनः पुनः चार वारम् , आदिष्टसूतसत्वरप्रवर्तितरथ्येन आदिष्टः-आशप्तो यः, सूतः-सारथिः, तेन सत्वर-शीघ्रम् , प्रवर्तिती-प्रेरितो, रथ्यौ-अश्वौ यस्य तादृशेन रथेन, तं प्रदेशं यत्र कुमार आसीदित्यर्थः, आगच्छत् आगतवान् । कीदृशः? महात्मनः महिमशालिनः, तस्य नृपकुमारस्य, त्रिभुवनाभिभा यिना, भुजवीर्येण बाहुविक्रमेण, निाजं निष्कपटं यथार्थमिति यावत्, आवर्जितमनाः हृतहृदयः; पुनः तथाविधप्रकटितसंरम्भाणि तथाविधम्-उकप्रकारं यथा स्यात् तथा, प्रकटितः-आविष्कृतः, संरम्भः-वेग उत्साहो वा यैस्वादशानि, सर्वतः, प्रधावितानि अतिसत्वरं गतानि, तानि सैनिकानि, अवलोक्य दृष्ट्वा, सम्भ्रमोत्क्षिप्तबाहुयुगला वेगोत्यापितभुजयुगलः, किं कुर्वन् ? गद्गदिकागृह्यमाणगलनिर्गलदपर्याप्ताक्षरं गद्गदिकया-शोकादिजन्याव्यक्तोचारणक्रियया, गृह्यमाणात् गलातू-कण्ठात् , निर्गलन्ति-निस्सरन्ति, अपर्याप्तानि-अपरिपूर्णानि, अक्षराणि यस्मिस्तादृशं यथा स्यात् तथा.रेरे इति सम्भ्रमद्योतकम्, उत्तरकोशलेश्वरस्य कोशलराष्ट्रोत्तरविभागेश्वरस्य, देवस्य राज्ञः, पादपङ्कजेभ्यः चरणकमलेभ्यः, स शपते, यः, अस्मै नृपकुमाराय, कुप्यति कोपं करोति, इति स्वशत्या खसामर्थेन, ब्याहरन् झुक्न [भ]। च पुनः, तं नृपकुमारम् , अद्राक्षीत् दृष्टवान् । कीदृशम् ? समासन्नदीपिकालोकप्रकाशितं समासन्नैः-सनिकटैः, दीपिकालोकैः-दीपवाहकजनैः, यद्वा समासन्नायाः-पार्ववर्तिन्याः, दीपिकायाः, आलोक:-प्रभाभिः, प्रकाशितम् ; पुनः आसक्त. सान्द्रसमररेणुधूसराभिरामवपुषम् आसक्तैः-संलग्नैः, सान्द्रः-निबिडेः, समररेणुभिः-संग्रामोद्भूतधूलिभिः, यो धूसरः-किञ्चित्पाण्डुवर्णः, तेन अभिरामम्-मनोहरम्, वपुः-शरीरं यस्य तादृशम्; पुनः अस्तपर्वतप्रस्थे अस्तपर्वतस्य अस्ताचलस्य, प्रस्थे-शिखरे, पार्वण पूर्णिमासम्बन्धिनम्, औषधीनाथमिव चन्द्रमिव, पृथुनि विशाले, रथपृष्ठे