________________
१८०
टिप्पनक-परागविवृतिसंवलिता __ आनन्दभरविजृम्भमाणोद्दामपुलकोपचितसर्वाक्यवा च प्रतिपन्नेव सद्यो गर्भेण द्विगुणमुपजातशोभा तत्क्षणमजायत [3] 1 स्थित्वा च किञ्चित्कालमुस्थिते च राज्ञि निर्गत्य रतिगृहाद्यथाक्रियमाणमुचितव्यापारमन्वतिष्ठत् [ड] । अनतिबहुषु च व्यतीतेष्वहस्त्वनन्तरे ऋतौ स्माता शरदिवसकरमूर्तिरिव भारवरं तेजो बभार गर्भमुदरेण [6] | निवृत्तरजःसङ्गापि पाण्डुतामगच्छत् , चलितुमसहापि खेलालसपदन्यासमकरोत् , दधत्यापि तनुतामुपचिता बभूव गात्रयष्टया, कृष्णतारोचितामपि क्षीरधवलामधत्त दृष्टिम् [ण]। तथा च प्रकृतिमन्दापि तस्या गतिरमन्दायत, पीनापि जघनमण्डली पीनतामभजत, सततमात्मनाधःकृतस्य मध्यस्य गौरवं पश्यन्ती श्लथत्वमासेदुषो दयितनिर्दयाश्लेषसुखरसस्य च स्मरन्तौ शुचेव श्याममुखता जग्मतुः स्तनौ, प्रवृद्धयोश्च काम
टिप्पनकम्-निवृत्तरजःसंगापि एकत्र रजः-धूलिः, अन्यत्र रजः-पापम् । खेला-लीला । तनुता-कृशत, स्वरूपेण, गर्भवशाद् उपचिता स्थूला । कृष्णतारोचितामपि या कृष्णत्वेन शोभिता सा कथं दुग्धश्वेता? अन्यत्र कालंतारयोपेता [ण]
__ च पुनः,आनन्दभरविजृम्भमाणोहामपुलकोपचितसर्वावयवा आनन्दभरेण-हर्षातिशयेन, विजृम्भमाणाःआयम्यमानाः, उद्दामभिः -उच्छ्रितः, पुलकैः-रोमाञ्चैः, उपचिताः-वर्धिताः, सर्वे अवयवाः-अङ्गानि, यस्यास्तादृशी सती, गर्भेण -शुक्रशोणितपिण्डविशेषेण, सद्यः तत्क्षणम् , प्रतिपन्नेव युक्तेव, तत्क्षणं खप्नश्रवणक्षणे, द्विगुणं खाभाविकशोभापेक्षया द्विगुणाधिकं यथा स्यात् तथा, उपजातशोभा उत्पन्नशोभा, अजायत समपद्यत [7]। __ च पुनः, किञ्चित्कालम् ईषत्कालम् , स्थित्वा स्थितिं विधाय, राशि मेघवाहने, उत्थिते कृतोत्थाने सति, रतिगृहात् बिलासगृहात्, निर्गत्य बहिर्गत्वा, यथाक्रियमाणं यथाक्रम प्राप्तम्, उचितव्यापारम् उचितकार्यम् , अन्वतिष्ठत् कृतवती [ड] । अनतिबहुषु कतिपयेषु, अहस्सु दिनेषु, व्यतीतेषु अतिक्रान्तेषु, अनन्तरे अव्यवहिते, ऋती मासिकरजःस्यन्दनावस्थावसाने, पक्षे शरदृती, माता कृतस्नाना, शरहिवसकरमूर्तिः शरदि-शरदृतुसम्बन्धिनी, दिवसकरस्य-सूर्यस्य, मूर्तिः-बिम्बम् भास्वरं दीप्तम् , तेज इव, उदरेण उदरद्वारा, गर्भ, बभार दधौ [6]। निवृत्तरजःसंगापि धूलिसम्पर्करहितापि, पाण्डुतां केतकीधूलितुल्यपाण्डुवर्णताम् , अगच्छत् प्राप्तवतीति विरोधः, तदुद्धारे तु निवृत्तः-निरुद्धः, रजःसंगः-पापसंगः, यद्वा रजःसङ्गः-श्रीधर्मशोणितोदयो यस्यास्तादृशी, पाण्डुताम् गर्भप्रयुक्तपाण्डुवर्णताम् । पुनः चलितुं गन्तुम् , असहापि अक्षमापि, खेलालसपदन्यासं खम्-आकाशम् , इला-पृथिवी, तयोर्लसेन-विलासेना पदन्यासं पादविक्षेपम् , चलनमिति यावत् , अकरोत् कृतवतीति विरोधः, चलितुमक्षमत्वे चलनासम्भवात् , तदुद्वारे तु खेलायां-क्रीडायाम, अलसं-गर्भभारेणालस्यान्वितमित्यर्थः । पुनः तनुतां कृशताम्, दधत्या धारयन्त्यापि, दधत्यपीति पाठे धारयन्त्यपीत्यर्थः, गात्रयश्या शरीरयष्ट्या, उपचिता स्थूला, बभूवेति विरोधः, शरीरयष्टेः कृशत्वे स्थूलत्वासम्भवात् , तदुद्धारस्तु भागान्तरावच्छेदेन कृशत्वेऽपि गर्भवशान्मध्यभागावच्छेदेन स्थूलत्वोपपत्त्या बोध्यः । पुनः कृष्णतारोचितामपि कृष्णतया-कृष्णवर्णेन, रोचितामपि-रुचिरामपि, क्षीरधवलां दुग्धतुल्यश्वेतवर्णाम् , दृष्टि नेत्रगोलकम् , अधत्त धृतवतीति विरोधः, कृष्णवर्णत्वे दुग्धधवलवासम्भवात् , तदुद्धारे तु कृष्णाभ्यां-कृष्णवर्णाभ्याम्, ताराभ्यां-कनीनिकाभ्याम् , उचितामपि-परिचितामपि, क्षीरधवलां-कनीनिका परितो दुग्धश्वेतवर्णामिति व्याख्येयम् [ण] 1 तथा च उत्तप्रकारेण च, तस्याः मदिरावत्याः, प्रकृतिमन्दापि ज्ञानिपुरुष-वृष-हंस-गज-परस्त्रीणां मन्दगामितया खभावतो मन्दापि,गतिः गमनम्, अमन्दायत मन्देवाचरत् , गर्भभारादतिमन्दत्वमदापदित्यर्थः । पुनः पीनापि वरस्त्रीत्वेन प्रकृत्या स्थूलापि, तस्या जघनमण्डली मण्डलाकारकटिपुरोभागः, पीनतां गर्भवशादतिस्थूलताम् , अभजत प्राप्तवती, पुनः आत्मना खेन, अधाकृतस्य स्थूलत्वादिना तिरस्कृतस्य, मध्यस्य मध्यभागस्य, उदरभागस्येति यावत् , गौरवं गुरुताम् , सततं निरन्तरम् , पश्यन्तौ अवलोकमानौ, च पुनः, श्लथत्वमासेदुषः तदानीं शिथिलत्वमापनस्य, दयितनिर्दयाश्लेषसुखरसस्य दयितेन-प्रियेण, यो निर्दयः-आत्यन्तिकः, लेषः-आलिजनम् , तज्जन्यस्य मुखरसस्य-आनन्दरसस्य, स्मरन्तौ, स्तनौ, शुषेष शोकेनेव, श्याम