SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ तिलकमञ्जरी । समूहेन सर्वतः परिवृताभिरालोहितापाङ्गतरङ्गैर्मन्दतारकाप रिस्पन्दैर्लोच नारविन्दै रनुभूत दीर्घरज निजागराभिरिव विभाव्यमानाभिरलम्बितालक श्रेणिभिरलुप्तललाट तिलकैरग्लपितौष्ठमुद्रालक्तकैराननेन्दुभिरसंपादितमनोभवाज्ञाभिरिव ज्ञायमानाभिः प्रधानावरोधसुन्दरीभिरनुगम्यमानम् अनतिभूरिपरिवार परिच्छदम्, उच्चलित-मध्वना सुवेलाद्रेः खेचरनरेन्द्रवृन्दमद्राक्षम् [ त ] | दृष्ट्वा चातस्तं प्रभार शिमत्यन्तदुरालोकं तं चापतन्तमभिमुखं खेचरलोकमुल्लसच्चित्तवृत्तिः प्रवर्तय पुरस्तान्नावमिति नियुज्य तारकं तत्क्षणमेव चलितस्तेन विस्मयस्तिमितचक्षुषा समस्तेनापि गगनचारिणां गणेन 'कोऽयं ? कुतोऽयं ? किमर्थमायातः ? कथमिहातिदुर्गमायां नगोपकण्ठभूमावेकाकी प्रविष्टः ? क यास्यति ?' इति जल्पता परस्परमवलोक्यमानो गत्वा स्तोकमन्तरमधस्तात् तस्य भूधरस्य झटिति दृष्टवानष्टापदाद्रिशिखरभाखराकारम्, उत्पातपवनधून नोपजातवेदानां गर्भपातमिव संवर्तका विद्युताम्, अनवरतवारिधिसलिलशोषणोत्पन्नजाड्यस्य दाहशक्तिभ्रंशभिव वाडवाग्नेः अमृतमथनोत्फालमन्दरास्फालितस्य रुधिरच्छटोद्गार - " ३१९ यः, परिवृताभिः परिवेष्टिताभिः कीदृशेन ? आप्रपदीनचीनकशुकावच्छन्नवपुषा आप्रपदीनः पादायान्तं यावत् लम्बमानो चीनकछुकः - चीन देशीय वस्त्रनिर्मितः कक्षुकः, तेन अवच्छन्नम् - आच्छादितम्, वपुः शरीरं यस्य तादृशेन, पुनः निज निजवाहनाधिरूढेन खखवाहने कृताधिरोहणेन; पुनः आलोहितापाङ्गतरङ्गैः आलोहितः - आरक्तः, अशङ्गतर:नेत्रप्रान्तभाग कान्तिप्रवाहो येषां तादृशैः पुनः मन्दतारका परिस्पन्दैः मन्दः, तारका परिस्पन्दः - कनीनिकासच्चारो येषु तादृशैः, लोचनारविन्दैः नयनकमलैः, अनुभूतदीर्घरजनिजागराभिरिव अनुभूता प्राप्ता, दीर्घायाम् आयतायां, रजन्यां--रात्रौ, जागरा-जागरणं याभिस्तादृशीभिरिव, विभाव्यमानाभिः प्रतीयमानाभिः पुनः अलम्बितालक श्रेणीभिः बद्धकुटिलकेशपङ्क्तिभिः; पुनः अलुप्तललाटतिलकैः अध्वस्तभाल स्थालक्तकबिन्दुभिः, पुनः अग्लपितौष्ठमुद्रालतकैः अग्लपितम्-अप्रच्यावितम् ओष्ठे, मुद्रालक्तकं-मुद्रात्मकम्, आलक्तकम् - रक्तद्रवो येषु तादृशैः, आननेन्दुभिः मुखचन्द्रैः, असम्पादितमनोभवाज्ञाभिरिव न सम्पादिता अपरिपालिता, मनोभवस्य - कामदेवस्य, आज्ञा- अनुशासनं याभिस्तादृशीभिरिव ज्ञायमानाभिः उत्प्रेक्ष्यमाणाभिः । पुनः कीदृशम् ? अति भूरिपरिवारपरिच्छदम् अतिभूरि- अत्यधिकः, परिवारः-अमात्यादिपरिजनः, परिच्छदः - उपकरणं च यस्य तादृशम् । पुनः सुवेलाद्रेः सुवेलसंज्ञकपर्वतस्य, अध्वना मार्गेण, उच्चलितम् ऊर्ध्वं चलितम् [त ] | च पुनः, अग्रतः अत्रे, अत्यन्तदुरालोकम् अतिदुर्दर्श, तं प्रकृतं, प्रभाराशि तेजःपुञ्जं च पुनः, अभिमुखं सम्मुखम्, आपतन्तम् आगच्छन्तं खेचरलोकं विद्याधरजनं दृष्ट्वा दृष्टिगोचरीकृत्य, उल्लखच्चित्तवृत्तिः प्रमोदमानमनोवृत्तिः सन्, पुरस्तात् अग्रे, नावं, प्रवर्तय प्रेरय, इति इत्थं, तारकं तत्संज्ञकं नाविकं नियुज्य आज्ञाप्य, तत्क्षणमेव तत्कालमेव, चलितः प्रस्थितः, विस्मयस्तिमितचक्षुषा विस्मयेन आश्चर्येण, स्तिमितं निश्चलं, चक्षुः- नेत्रं यस्य तादृशेन, समस्तेनापि समग्रेणापि, तेन प्रकृतेन, गगनचारिणां खेचराणां गणेन समूहेन, अयं प्रत्यक्षवर्ती, क: ?, अयं कुतः कस्मात् स्थानात्, किमर्थे किमुद्देश्यकम्, आयातः आगतः ? कथं केन प्रकारेण अतिदुर्गमायाम् अतिदुःखेन गम्यायाम्, इह अस्यां नगोपकण्ठभूमौ पर्वतप्रान्तभूमौ एकाकी अद्वितीयः, प्रविष्टः कृतप्रवेशः सन् क्व कुत्र, यास्यति गमिष्यति ? इति परस्परम् अन्योऽन्यम्, जल्पता ध्रुवता, अवलोक्यमानः निरीक्ष्यमाणः, स्तोकं किञ्चित्, अन्तरं दूरं तस्य प्रकृतस्य, भूधरस्य पर्वतस्य, अधस्तात् अधोदेशं, झटिति शीघ्रं गत्वा, एकं दिव्यं मनोहरम्, आयतनं गृहं, देवमन्दिरमित्यर्थः, दृष्टवान् कीदृशम् ? अष्टापदाद्विशिखरभाखराकारम् अष्टापदनामकपर्यंतस्य शिखरवत्, भाखरः--दीप्रः, आकारो यस्य तादृशम् । पुनः उत्पातपवनधूननोपजातखेदानाम् उत्पातपवनेन - शुभाशुभावेदका - कस्मिक भूकम्पादिकालिकवायुना, यत् धूननं-कम्पनं, तेन उपजातः - उत्पन्नः खेदः - वेदना यासां तादृशीनां संवर्तकाभ्रविद्युतां संवर्तक नामक मेघसम्बन्धितडितां, गर्भपातमिव गर्भस्रा चमिवेत्युत्प्रेक्षा । पुनः अनवरतवारिधिसलिलशोषणोत्पन्न जाड्यस्य अनवरतं - निरन्तरं वारिधेः समुद्रस्य, सलिलशोषणेन - जलशोषणेन उत्पन्नं, जाड्यं - शैत्यं यस्य तादृशस्य, वाडवाग्नेः समुद्रस्थिताग्नेः, दाहशक्तिभ्रंशमिव दाहशक्तिध्वंसमिवेति चोत्प्रेक्षा । पुनः अमृतमथनोत्फालमन्दरा
SR No.008456
Book TitleTilakamanjiri Part 2
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi, Shantyasuri, Lavanyasuri
PublisherVijaylavanyasurishwar Gyanmandir Botad
Publication Year
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy