SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ २६२ टिप्पनक-परागविवृतिसंवलिता दिग्मण्डलेन्द्रनीलवलयस्य, छायाचक्रमिव ब्रह्मस्तम्बतरूगहनस्य, प्रच्छदपटमिव महीतलमहाशयनस्य, अदृष्टपर्यन्ततया दृष्टान्तमिव संसारस्य, मूर्ततापरिणाममिव कालस्य, रूपान्तरग्रहणमिव शब्दराशेः, उदाहरणमिव निःश्रेयससुखानाम् , अनुकारमिव महाकविप्रज्ञाऽऽलोकस्य [अ], सर्वतश्चान्धकारितदिगन्तराभिरन्धकारातिकन्धराकान्तिकालीभिः पातालतिमिरेभ्य इव जम्भिताभिरितस्ततः सर्पदहिकुलप्रभाभिरिव संतर्पिताभिरसुर. लोकादिव लब्धनिर्गमाभिरवगाहावतीर्णदिमागमदक्षालनादिव क्षुभितामिरन्तःप्रसुप्ताच्युतशरीरात्येव दत्तसंस्काराभिरनिलविलुलितैरौवैज्वलनधूमैरिवानुरञ्जिताभिरन्तःकरणवासिवैवस्वतानुजादेहलावण्येनेव लिप्ताभिस्तटतमाल. काननच्छायानिर्गमैरिव निरर्गलीकृतप्रसराभिरुल्लसन्तीभिरम्भसः प्रभावर्तिभिरत्यन्तधीराणामपि मनसि साध्वसमादधानम् [आ], मुद्रितमुखरहंसनूपुरस्वनाभिः त्वरितगतिवशोत्कम्पमानपृथुपयोधरतटाभिर्मुक्तवाचाल. क्रौञ्चमालामेखलानि पुलिनजधनस्थलानि विभ्रतीभिरितस्ततो वलितविलोलतारशफरलोचनाभिर्बहलशैवलप्रवालकस्तूरिकास्तबककलङ्कितानि पङ्कमलिनेन नवनीरवाससा सुदूरमावृण्वतीभिर्मुखानि विजृम्भिताभिनव. टिप्पनकम्-वैवस्वतानुजा-यमानुजा [आ]। सुघटितकाष्ठस्य गगनारघट्टस्य काष्ठाः-दिशः, काष्ठानिदारूण च [ई]। जन्मपल्वल मिव जन्मस्थानभूतजलाशयमिव, पुनः दिङ्मण्डलेन्द्रनीलवलयस्य दिङमण्डलरूपस्य इन्द्रनीलमणिनिर्मितकङ्कणस्य, प्रभापटलमिव द्युतिसमूहमिव, पुनः ब्रह्मस्तम्बतरुगहनस्य ब्रह्माण्डरूपस्य वृक्षसमूहस्य, छायाचक्रमिव छायामण्डलमिव, पुनः महीतलमहाशयनस्य भूमण्डलरूपमहाशय्यायाः, प्रच्छदपटमिव आस्तरणवस्त्रमिव, पुनः अदृष्टपर्यन्ततया अदृष्टान्तिमावधिकतया, संसारस्य जगतः, दृष्टान्तमिव उपमानमिव, आदर्शभूतमिवेति यावत् , पुनः कालस्य कालाख्यामूर्तद्रव्यस्य, मूर्ततापरिणाममिव मूर्ततया क्रियादिवदव्यभावेन विकारभूतमिव, पुनः शब्द. राशेः शब्दसमूहस्य, रूपान्तरग्रहणमिव रूपान्तरापत्तिमिव, पुनः निःश्रेयससुखानां मोक्षसुखानाम् , उदाहरणमिध निरवसानताया दृष्टान्तमिव, पुनः महाकविप्रज्ञाऽऽलोकस्य महाकविप्रतिभाप्रकाशस्य, अनुकारमिव अनुकरणमिव [अ], पुनः अम्भसः जलस्य, प्रभावर्तिभिः प्रभारूपाङ्गलेपैः, अत्यन्तधीराणामपि परमधैर्यशालिनामपि, मनसि हृदये, साध्वसं भयम् , आदधानं जनयन्तम् , कीदृशीभिः? सर्वतः सर्वभागेषु, अन्धकारितदिगन्तराभिः अन्धीकृतदिनमभ्याभिः, पुनः अन्धकारातिकन्धराकान्तिकालीभिः अन्धकस्य-तदाख्यराक्षसस्य, अरातिः-शत्रुः शिवः, तस्य या कन्धरा-ग्रीवा, तस्या या कान्तिः-कृष्णवर्णः, तद्वत् कालीभिः कृष्णवर्णाभिः, पातालतिमिरेभ्य इव लस्थान्धकारेभ्य इव, जम्भिताभिः जृम्भया प्रकाशिताभिः, पुनः इतस्ततः अत्र तत्र, सर्पदहिकुलप्रभाभिः सर्पताम्-उद्वेलताम् , अहिकुलाना-सर्पगणानां, प्रभाभिः-कान्तिभिः, सन्तर्पिताभिरिव परिपोषिताभिरिय, पुनः असुरलोकात् दैत्यलोकात्, लब्धनिर्गमाभिरिव प्राप्तनिस्सरणाभिरिव, पुनः अवगाहावतीर्ण दिनागमदक्षालनात् अवगाहाय-सलिलान्तःप्रवेशाय, अवतीर्णैः-आगतैः, दिनांगैः-दिग्गजैः, मदानां-दानवारीणां, क्षालनात्-मार्जनात्, क्षुभिताभिरिव कलषिताभिरिव, पुनः अन्तःप्रसुप्ताच्युतशरीरधुत्या अन्तः-मध्ये, प्रसुप्तस्य-शयितस्य, अच्युतस्यविष्णोः, शरीरद्युल्या-शरीरकान्त्या, दत्तसंस्काराभिरिव कृतसंस्काराभिरिव, पुनः अनिलविलुलितैः पवनोद्भूतैः, और्वज्वलनधूमैः मौर्षज्वलनः-वाडवाग्निः, तस्य धूमः, अनुरञ्जिताभिरिव मलिनिताभिरिव, पुनः अन्तःकरणवासि हलावण्येन अन्तःकरणवासिन्या:-हृदयवास्तव्यायाः, वैवखतानुजायाः-यमानुजाया यमुनाया इत्यर्थः, देहलावण्येन-शरीरकान्त्या, लिप्ताभिरिव मिश्रिताभिरिव, पुनः तटतमालकाननच्छायानिर्गमैः तटेषु यानि तमालकामनानि-तमालाख्यतरुवनानि, तेषां छायानां निर्गमैः-निःसरणैः, निरर्गलीकृतप्रसराभिः निरर्गलीकृतः-अप्रतिहतीकृतःप्रसरः-प्रसरणं यासां सादृशीभिरिव, उल्लसन्तीभिः उद्दीप्यमानाभिः [आ]। पुनः कीदृशम् ? विजृम्भिताभि. नवमेघदुर्दिनेषु विजृम्भितेन-उद्धृतेन, अभिनवेन-सद्यःसम्भृतसलिलेन, मेधेन, दुर्दिनेषु-अन्धकारावृतेषु, दिनेषु वासरेषु,
SR No.008456
Book TitleTilakamanjiri Part 2
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi, Shantyasuri, Lavanyasuri
PublisherVijaylavanyasurishwar Gyanmandir Botad
Publication Year
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy