________________
टिप्पनक - परागविवृतिसंवलिता
त्पदातिनिर्दयपादपातप्रवर्तिताकाण्डमेदिनीकम्पः प्रहर्षोत्ता लवैतालिकन्नात तारतरो द्रुष्यमाणजयजयध्वनिर्ध्वनद्विजयमङ्गलाभिधानतूर्यनिर्घोषबधिरिताखिलब्रह्मस्तम्बः पुरस्तात् सलीलचलित करिघटारूढ किङ्करपुरुषपातितविरलघनघातानामुत्पातनिर्घातघोरघोषोद्गारमतितरमारसन्तीनां ढक्कानां ध्वनितेन मुखरयन्निखिलान्यपि दिशां मुखानि [द], शिखरविस्फुरत्पद्मरागस्थूलकलशस्य दोलायमानावचूलमुक्ताफलदान्नश्चित्ररत्नखण्डखचितचामीकरदण्डस्य पुरः प्रसर्पतः श्वेतातपत्रखण्डस्य पर्यन्तयायिनामनिलभरितरन्ध्रवर्त्मव्यक्तरूपाणामि भवराहशरभशार्दूलमकरमत्स्याद्याकारधारिणामनेकपार्थिवसमरसंगृहीतानां चिह्नकानामपहृतार्करोचिषां चक्रवालेन जटिलीकृतदिगन्तरालो राजकुलान्निरगच्छम् [ ध ] | अनुपदं च प्रणामपरितुष्टभिर्विजयाशिषाभिनन्द्यमानो द्विजातिपरिषद्भिर्विनयविरचिताञ्जलिपुटाभिः प्रणम्यमान: पौरजनताभिरुत्सृष्ट लाजवृष्टिभिरुदुष्यमाणमनोरथ सिद्धिर्नगर
२५.४
पुनः सदर्पसर्पत्पदातिनिर्दय पादपातप्रवर्तिताकाण्डमेदिनीकम्पः सदर्प- सगर्व यथा स्यात् तथा, सर्पतां गच्छताम् पदातीनां-पादगामिसैन्यानाम्, निर्दयं निष्ठुरं यथा स्यात् तथा पादपातेन - पादविक्षेपेण, पादाघातेनेत्यर्थः प्रवर्तितःप्रारब्धः, अकाण्डे-अनवसरे, मेदिनीकम्पः - भूकम्पो येन तादृशः, पुनः प्रहर्षोत्तालवैतालिक वाततारतरोदुष्यमाणजयजयध्वनिः प्रहर्षेण - प्रमोदेन, उत्ताल:- उद्धतः, यो वैतालिकानां- बन्दिपुत्राणाम्, व्रातः- समूहः तेन तारतरम् - उच्चतरं यथा स्यात् तथा, उद्बुध्यमाण:- असकृदुच्चार्यमाणः, जयजयध्वनिः- जयजयकारो यस्य तादृशः; पुनः ध्वनद्विजयमङ्गलाभिधान तूर्यनि घोषवधिरिता खिल ब्रह्मस्तम्बः ध्वनतः - शब्दायमानस्य, विजयमङ्गलाभिधानस्य - विजयमङ्गलाख्यस्य, सूर्यस्यवाद्यविशेषस्य, निर्घोषैः - नादैः, बधिरितः - बधिरीकृतः, अखिल ब्रह्मस्तम्बः - समस्त ब्रह्माण्डो येन तादृशः; पुनः ढक्कानां यशःपटहानाम्, ध्वनितेन ध्वनिना, अखिलान्यपि सर्वाण्यपि, दिशाम्, मुखानि अग्रभागान्, मुखरयन् ध्वनयन्, कीदृशीनाम् ? पुरस्तात् अमे, सलीलचलित करिघटा रूढ किङ्कर पुरुषपातितविरलघनघातानाम् सलीलं -सखेलम्, चलितांप्रयाताम्, करिघटां- हस्तियूथम्, आरूढैः - कृतारोहणैः, किङ्करपुरुषैः - मृत्यभूतपुरुषैः, पातितः - सङ्घर्षविश्लेषितः, विरलधनःकदाचिद् विरलः, कदाचिद् घनः घातः - अभिघातो यासां तादृशीनाम् पुनः उत्पातनिर्घातघोर घोषोद्गारम् उत्पातरूपःशुभाशुभसूचकभूतविकारभूतः यः निर्घातः- ध्वनिः, तद्वद् घोरः- भयङ्करः, घोषोद्गारः - नादोद्रेको यस्मिंस्तादृशं यथा स्यात् तथा, अतितारम् अत्युचैः, आरसन्तीनाम् आ-समन्ताद् ध्वनन्तीनाम् ; [द] । पुनः शिखरविस्फुरत्पद्मरागस्थूलकलशस्य शिखरे - ऊर्ध्वभागे, विस्फुरन - प्रकाशमानः, पद्मरागस्य तदाख्यरक्कमणेः, तन्मणिमय इत्यर्थः, स्थूलः - कलशो यस्य तादृशस्य, पुनः दोलायमानावचूलमुक्ताफलदाम्नः दोलायमानम्, अवचूलानां - वर्तुलानाम्, मुक्ताफलानां - मुक्तामणीनाम् ं, दाम-पङ्क्तिर्यस्मिंस्तादृशस्य, पुनः चित्ररत्नखण्डखचितचामीकरदण्डस्य चित्रैः -नानावर्णैः, रत्नखण्डैः, खन्चितःव्याप्तः, चामीकरदण्डः–सुवर्णमयदण्डो यस्य तादृशस्य, पुनः पुरः अग्रे, प्रसर्पतः उद्वेलतः, श्वेतातपतत्रस्य वेतच्छत्रस्य, पर्यन्तपातिनाम् प्रान्तवर्तिनाम्, अनिलभरितरन्ध्रवर्त्मव्यक्तरूपाणाम् अनिलभरितेन वायुपूर्णेन, रन्ध्रवर्त्मना - छिद्र - मार्गेण, व्यक्तं-प्रकटितभ्, रूपं स्वरूपं येषां तादृशानाम्, इभ- वराह- शरभ शार्दूल मकर-मत्स्याद्याकारधारिणाम् इभः - हस्ती, वराहः - शूकरः, शरभः - मृगविशेषः, शार्दूलः - व्याघ्रः, मकरः- जलजन्तु विशेषः, तदादीनां तत्प्रभृतीनाम्य आकारः-प्रतिकृतिः, तद्धारिणाम्, अनेक पार्थिवसमरसंगृहीतानाम् अनेकपार्थिवैः - नानानृपैः सह समरे - संग्रामे, संगृहीतानाम्-सश्चितानाम्, अपह्नुतार्करोचिषाम् अपह्नुतम् - अपलपितम्, अर्कस्य - सूर्यस्य, रोचिः-प्रकाशो यैस्तादृशानाम्, चिह्नकानां ध्वजानाम्, चक्रवालेन मण्डलेन, जटिलीकृतदिगन्तरालः व्याप्तदिङ्मध्यः [ ध ] |
व पुनः, अनुपदं प्रतिपदम् प्रणामपरितुष्टाभिः अभिवादन सन्तुष्टाभिः, द्विजातिपरिषद्भिः द्विजमण्डलीभिः, विजयाशिषा विजयशुभैषणया, अभिनन्द्यमानः अभिवर्घ्यमानः पुनः विनयविरचिताञ्जलिपुटाभिः विनयेननम्रभावेन, विरचितः - निर्मितः, अञ्जलिपुटो याभिस्तादृशीभिः, पौरजनताभिः पुरवासिजनसमूहैः, प्रणम्यमानः अभिवाद्यमानः; पुनः उत्सृष्टलाजवृष्टिभिः उत्सृष्टाः - विमुक्ताः, लाजत्रृष्टयः - भ्रष्टधान्यवृष्टयो याभिस्तादृशीभिः, नगरवृद्धाभिः नगरवास्तव्यवृद्धस्त्रीभिः, उद्घुष्यमाणमनोरथसिद्धिः उदुष्यमाणा - असकृदुच्चार्यमाणा, मनोरथसिद्धिः - अभिलषितार्थ