________________
तिलकमञ्जरी ।
सौभाग्यहेतोरुपासिताभिरिन्दुनाऽपि प्रतिदिनं प्रतिपन्न कलान्तरेण प्रार्थ्यमानमुखकमलकान्तिभिर्मकरध्वजेनापि दर्शिताधिना लब्धहृदयप्रवेशमहोत्सवाभिरप्रयुक्तयोगाभिरेकावयवप्रकटाननमरुतामपि गतिं स्तम्भयन्तीभिरव्यापारितमन्त्राभिः सकृदाह्वानेन नरेन्द्राणामपि सर्वस्वमाकर्षयन्तीभिरसदोषधीपरि
४९
इति विरोधः, तत्परिहारे तु इतराभिः अन्याभिः कृतपुण्यजनोचिताभिः एकत्र कृतं पुण्यं शुभकर्म यैस्ते तथोक्ताः, ते च ते जनाश्च कृतपुण्यजनाः, तेषाम् उचिताः- योग्याः, अन्यत्र पुण्यजनाः- यक्षाः कृतं पुण्यजनानाम् उचितम् - अनुरूपम्, यकाभिस्तास्तथोक्ताः, ताभिः, न्यक्कृतपद्माभिः पद्म-कमलम्, पद्मा लक्ष्मीः, लघुकृतरम्भास्तम्भाभिः तिरस्कृतकदलीस्तम्भाभिः, अपनीतरम्भाप्सरोदर्पाभिश्र, गौर्याऽपि सुवर्णवर्णया भवान्याऽपि, प्रतिपन्नकलान्तरेण अभ्युपगतव्याजेन, अन्यत्र अवासान्यान्यषोडशभागेन, दर्शिताधिना आधि: - मानसी पीडा, महतामपि देवानामपि,
वारवधूभिः करणभूताभिः, वितीर्णत्रिभुवनविजिगीषुकुसुमसायक साहायका वित्तीर्ण - दत्तम्, सम्पादितमिति यावत् त्रिभुवनविजिगीषोः- त्रिलोकी विजयेच्छोः, कुसुमसायकस्य - पुष्पबाणस्य, कामदेवस्येत्यर्थः, साहायकं - साहाय्यं यया तादृशीभिः पुनः कीदृशीभिर्विलासिनीभिः ? कुबेरपुर पुण्याङ्गनाभिरिव कुबेरस्य - यक्षराजस्य, पुरम् - अलकापुरी, तस्य . या पुण्याङ्गनाः- पवित्रस्त्रियः, यक्षत्रियो वा, ताभिरिव, 'कुबेरपुरपण्याङ्गनाभिरिव' इति पाठे तु अलकापुरीनिवासिवारवधूभिरिवेत्यर्थः, कृतपुण्यजनोचिताभिः कृतं पुण्यं यैस्ते कृतपुण्याः, श्रीमन्त इत्यर्थः तादृशजनयोग्याभिः, पक्षे कृतं पुण्यजनानां यक्षाणाम्, उचितं स्त्रीजनयोग्यं परिचर्यादिकार्यं याभिस्तथाभूताभिः, “अथ पुण्यजनो यक्षे राक्षसे सज्जनेऽपि च” इति मेदिनी, पुनः कीदृशीभिः ? पादशोभयाऽपि चरणचारुतयाऽपि किमुत मुखादिशोभया, यद्वा पादश्चतुर्थांशः, तन्मितयाऽपि शोभया, आस्तां पूर्णया, न्यक्कृतपद्माभिः न्यक्कृतं पद्मं - कमलम्, पद्मा लक्ष्मीर्याभिस्तादृशीभिः, पुनः कीदृशीभिः ? ऊरुश्रियाऽपि सक्थिशोभयाऽपि, लघुकृतरम्भास्तम्भाभिः लघूकृतः - न्यूनतां नीतः, रम्भास्तम्भः कदलीस्तम्भः, रम्भायाः - अप्सरोविशेषस्य, स्तम्भः- गर्वो वा याभिस्तादृशीभिः पुनः कीदृशीभिः ? गौर्या शुभ्रपीतात्मिकया, छाययाऽपि कान्त्याsपि, सौभाग्यहेतोः समीचीनाश्रयजन्योत्कर्षकामनया, उपासिताभिः सेविताभिः, यद्वा “शङ्खेन्दुकुन्दधवला ततो गौरी तु सा मता" इत्यन्वर्थनाच्या गौर्याऽपि पार्वत्याऽपि, छायया स्वकान्तिद्वारा सौभाग्यहेतोः स्योत्कर्ष हेतोः, तत्सौन्दर्यहेतोर्वा, उपासिताभिः आश्रिताभिः, निरतिशय सौन्दर्यवर्णाभिरित्यर्थः, पुनः कीदृशीभिः ? प्रतिदिनं प्रति प्रतिपदादितिथि, प्रतिपश्नकलान्तरेण प्रतिपन्नं प्राप्तम्, कलान्तरम् उत्तरोत्तराधिककला येन तादृशेनापि, उत्तरोत्तरकलाढयेनापीत्यर्थः, इन्दुना चन्द्रेण, प्रार्थ्यमानमुख कमलकान्तिभिः प्रार्थ्यमाना प्रकर्षेण याच्यमाना, अत्यन्तमभिलष्यमाणेत्यर्थः, मुखकमलकान्तिर्यासां तादृशीभिः, तन्मुखकान्तेश्चन्द्रकलातोऽप्यधिककमनीयत्वादिति भावः, यद्वा प्रतिपन्न कलान्तरेण प्रतिपन्नं स्वीकृतं, कलान्तरं मूलधनस्य अपरा कला कलान्तरम्, यल्लोके 'ब्याज' इति कथ्यते, “वृद्धिः कलान्तरम्" इति हैमः, येन तादृशेन, यथा कश्चिद् धनेच्छुः कस्यचिद् धनिनः सकाशात् कलान्तरस्वीकारेण धनं प्रार्थयते तथा कान्तिरूपधनेन्छुश्चन्द्रो धनिकस्थानापन्न विलासिनीनामप्रे कलान्तरस्वीकारेण धनस्थानीय मुखकान्ति प्रार्थयते, प्रचुरभुखकमलकान्तिभिरित्यर्थः, पुनः कीदृशीभिः ! दर्शिताधिना दर्शितः - बोधितः, आधिः- मानसी व्यथा शिवकोपानलकवलित कलेवर कस्वप्रयुक्ता येन तादृशेन, मकरध्वजेनापि कामदेवेनापि, लब्धहृदय प्रवेशमहोत्सवाभिः लब्धः - प्राप्तः, हृदयप्रवेशमहोत्सव:सरसहृदय प्रवेशरूपो महोत्सवो यासां तादृशीभिः, शम्भुना दग्धकलेवरमपि कामदेवं स्वहृदयरूप शृङ्गारसुधारसशा लिहदे निमजय्य या जीवयामासुस्तादृशीभिरिति तु परमार्थः पुनः कीदृशीभिः ? अप्रयुक्तयोगाभिरपि अप्रयुक्तः - नानुष्ठितः, योगः- “योगश्चित्तवृत्ति रोधः" इति पतञ्जलिपरिभाषितो बाह्यविषयेभ्यश्चित्तवृत्तिनिरोधरूपो याभिस्तादृशीभिरपि, योगमार्गानभिज्ञाभिरपीत्यर्थः, एकावयवप्रकटाननमरुताम् एकावयवे - नासापुटरूपे एकस्मिन्नवयवे, प्रकटाः- संघातरूपेणाविर्भूता ये, आननमरुतः - मुद्रितमुखवायवः, तेषाम्, गतिं बहिगमनम्, स्तम्भयन्तीभिः कुम्भक प्राणायामेन निरुन्धन्तीभिरिति विरोधः, परिहारे तु अप्रयुक्तो योग :- पाणिग्रहण सम्बन्धो याभिस्तादृशीभिः, एकावयवे - मुखकमलादिरूप एकस्मिन्नपि अङ्गे, किमुत सर्वाङ्गेषु, प्रकटम्उन्मीलितलोचनान्वितम्, आननं मुखमण्डलं येषां ते एकावयवप्रकटाननाः, ते च ते मरुतः - देवास्तेषाम्, खमुखारविन्दावलोकनव्यासक्तमनसां देवानामिति यावत् गतिं तद्दर्शनव्याधातकमन्यत्र गमनम् स्तम्भयन्तीभिः निरुन्धन्तीभिः प्रत्युत ७ तिलक•