________________
४८
टिप्पनक-परागविवृति संचलिता
रलङ्कृता वधूभिः [ अ ], इतराभिरपि त्रिभुवनपताकायमानाभिः कुबेरपुरपुण्याङ्गनाभिरिव कृतपुण्यजनोचिताभिः पादशोभयाऽपि न्यक्कृतपद्माभिरूरुश्रियाऽपि लघूकृतरम्भास्तम्भाभिर्गौौर्याऽपि च्छायया
सम्बन्धाभिः [अं]। इतराभिरपि त्रिभुवनपताकायमानाभिः यदि इतराः - सामान्याः, कथं त्रिभुवनपताकायमाना
अनवरतम्, गृहव्यापारेषु - गृहकर्मसु न त्वभिसरणादिव्यापारेषु, निमनं-नियन्त्रितम्, मानसं यासां तादृशीभिः पुनः कीदृशीभिः ? निसर्गतः स्वभावतः, न तूपदेशतः, गुरुवचनानुरागिणीभिः गुरूणां भर्त्रादीनाम्, यद्वा गुरुषु श्रेष्ठेषु आगमादिरूपेष्विति यावत्, वचनेषु अनुरागिणीभिः - श्रद्धालुभिः पुनः कीदृशीभिः ? अनुल्बणोज्ज्वलवेषाभिः अनुल्बणः- अनुत्कटः, न तु वाराङ्गनावद आडम्बरान्वितः उज्वलः - स्फीतश्च वेषः - वसनाभरणादिकल्पित सौन्दर्य यासां ताभिः पुनः कीदृशीभिः ? स्वकुलाचार कौशलशालिनीभिः निजनिजकुलोचिताचारनिपुणताशालिनीभिः, पुनः कीदृशीभिः ? कुचकुम्भयोः कुचौस्तनौ, कुम्भाविव पृथुत्वादिति कुचकुम्भौ, तयोः, उद्धत्याऽपि उन्नत्याऽपि किमुत बाह्यवस्तुभारेण ?, कदर्थ्यमानाभिः पीड्यमानाभिः केन हेतुना ? शालीनतया कुलाङ्गनोचितलज्जाशीलतया, अचञ्चलेन तिरोहितयोरपि तयोरुतयोर्झटिति झटिति बहिरुत्क्रमणेन लज्जोदयादित्यर्थः पुनः केन हेतुना ? सुकुमारतया च परमकोमलतया च तयोरतिपीनतया तासां तद्भरभङ्गुरत्वादित्यर्थः, पुनः कीदृशीभिः ? मणिभूषणानां स्वपरिहितमणिमयाभरणानाम्, मुखरतयाऽपि अन्योऽन्यसंघर्षणादिजन्यझणत्कारेणापि किमुत कलहकोलाहलैः ?, खिद्यमानाभिः व्यथ्यमानाभिः, शान्तिप्रियाभिरित्यर्थः, पुनः कथम्भूताभिः ? रतेष्वपि प्रियसम्भोगेष्वपि किमुत क्लेशमयकर्मसु ?, ताम्यन्तीभिः अरुचिमुपदर्शयन्तीभिः केन कारणेन ? वैयात्यपरिग्रहेण वैयात्यंधृष्टता, तद्ब्रहणेन, पत्या प्रार्थ्यमानत्वेऽपि धृष्टताधारणेनेत्यर्थः एतेन तासां मानिनीत्वं ध्वनितम्। पुनः कीदृशीभिः ? स्वप्नेऽपि स्वप्नावस्थायामपि किमुत जाग्रदवस्थायाम्, द्वारतोरणम् अन्तःपुरबहिर्द्वारोर्ध्वदेशम् अलङ्घयन्तीभिः उल्लङ्घय बहिरगच्छन्तीभिः खप्नावस्थेनापि मनसा अन्तः पुरब हिर्देशमनुभवन्तीभिरित्यर्थः, एतेन परमपावित्र्यं सूचितम्, एष्वपि शब्दघटितवाक्येष्वर्थापत्तिरलङ्कारः, पुनः कीदृशीभिः ? अङ्गीकृतसतीव्रताभिरपि अङ्गीकृतम्, सतीव्रतं - पातिव्रत्यं याभिस्तादृशीभिरपि, असतीव्रताभिरिति विरोधः, तत्परिहारे तु तीव्रतया - तीक्ष्णतया उग्रतयेति यावत्, सहिताः सतीव्रताः, न सतीव्रता असतीव्रतास्ताभिरित्यर्थो बोध्यः, अत्र विरोधाभासोऽलङ्कारः, पुनः कीदृशीभिः ? नितम्बभारवहने नितम्बस्यकटिपश्चिमभागस्य, भारवहने - पृथुतया तद्भारवहने, अलसाभिः आलस्यान्विताभिः, पृथुनितम्बाभिरित्यर्थः, पुनः कीदृशीभिः ? उदरे उदरप्रदेशावच्छेदेनैत्र, तुच्छाभिः लघीयसीभिः, अतिकृशोदराभिरित्यर्थः, न तु गुणेषु तुच्छाभिः पुनः कीदृशीभिः ? चक्षुष नेत्रावच्छेदेनैव तरलाभिः चञ्चलाभिः, न तु चित्तवृत्तौ पुनः कीदृशीभिः ? भ्रुवोः नयनोर्ध्वदेशस्थरोमराजिरूपभ्रूद्वयावच्छेदेनैव, कुटिलाभिः वक्राभिः, न तु हृदये, पुनः कीदृशीभिः ? अङ्गशोभायां शरीर सौन्दर्यविषय एव, अतृप्ताभिः तृप्तिरहिताभिः, न त्वन्यविषये, पुनः कीदृशीभिः ? तारुण्ये यौवनावच्छेदेनैव, उद्धताभिः उच्छृङ्खलाभिः, न तु स्वभावे, पुनः कीदृशीभिः ? चरणयोः पादयोरेव, कृतकुसङ्गाभिः कृतः कुसङ्गः - भूमिसम्पर्कों याभिस्तादृशीभिः, न तु स्वभावे कृत कुत्सितसङ्गाभिः अत्र सर्वत्र परिसङ्ख्यालङ्कारोल्लेखालङ्कारसङ्करः, पुनः कीदृशीभिः ? कोपेऽपि क्रोधावस्थायामपि, अदृष्टमुखविकाराभिः अदृष्टः - पार्श्ववर्तिभिरपि अप्रतीतः, मुखविकारः - मुखवक्रः वादिकं यासा तादृशीभिः पुनः कीदृशीभिः ? व्यलीकेऽपि अप्रिये कृतेऽपि, अनुज्झितविनयाभिः तत्कारणं प्रति अत्यक्तनम्रताभिः पुनः कीदृशीभिः ? खेदेऽपि क्लेशेsपि, अखण्डितोचितप्रतिपत्तिभिः अखण्डिता - अत्यक्ता, उचितप्रतिपत्तिः - गुरुजनोचितसत्क्रिया याभिस्तादृशीभिः, पुनः कीदृशीभिः ? कलहेऽपि कलहकालेऽपि, अनिष्ठुर भाषिणीभिः कठोरवाक्यानुच्चारयित्रीभिः सदैव मधुरभाषिणीभिरित्यर्थः, अत्र सर्वत्र कारणानुगुणकार्यानुदद्येन विशेषोक्तिरलङ्कारः, पुनः कीदृशीभिः ? शरीरबद्धाभिः मूर्तिमतीभिः सकलपुरुषार्थसिद्धिभिरिव धर्मार्थ काम मोक्षाख्यपुरुषार्थचतुष्टयनिष्पत्तिभिरिवेत्युत्प्रेक्षा, पुनः कीदृशीभिः ! कुलप्रसूताभिः सत्कुलोत्पन्नाभिः [ अ ] 1
पुनः कीटासौ नगरी? इतराभिरपि पामराभिरपि, त्रिभुवनपताकायमानाभिः त्रिभुवनोत्कृष्टाभिरिति विरोधः, परिहारे तु इतराभिरपि अन्याभिरपि, सत्कुलप्रसूतातिरिक्ताभिरपीत्यर्थः, त्रिभुवन पताकायमानाभिः त्रिभुवनपताकावदाचरन्तीभिः, त्रिभुवनोत्कृष्टच्छविच्छटाभिरिति व्याख्येयम्, “इतरः पामरेऽन्यस्मिन्” इति नानार्थसङ्ग्रहः, विलासिनीभिः