________________
टिप्पनक-परागविवृतिसंवलिता न स्वप्नेऽपि समाश्रिता रिपुजनं म्लानिं गता नोन्नती लग्ना साधुगुणद्विषां शुचितया कर्णे न दुष्टात्मनाम् । निर्दोषाहसनेन दिक्षु गमितेत्यात्मीयवार्तामिव व्याकर्तुं ब्रजति स्म यस्य तरसा कीर्तिः सुरेन्द्रालयम् ॥४९॥
[शार्दूलविक्रीडितम् ] निःशेषवाङ्मयविदोऽपि जिनागमोक्ताः श्रोतुं कथाः समुपजातकुतूहलस्य । तस्यावदातचरितस्य विनोदहेतो राज्ञः स्फुटाद्भुतरसा रचिता कथेयम् ॥ ५० ॥ [ वसन्ततिलका ]
__ आसीद् द्विजन्माऽखिलमध्यदेशप्रकाशसांकाश्यनिवेशजन्मा ।। ... अलब्ध देवर्षिरिति प्रसिद्धिं यो दानवर्षित्वविभूषितोऽपि ॥ ५१ ॥ [ उपजातिः]
टिप्पनकम्-तरसा शीघ्रम् ॥ ४९ ॥ ५० ॥
टिप्पनकम्-अलब्धेत्यादि । [अलब्ध ] यो लब्धवान् प्राप्तवान् , काम् ? प्रसिद्धि-प्रख्याम् , कथम् ? देवर्षिरिति देवमुनिरिति, स कथम् ? दानवर्षित्वविभूषितोऽपि दामवमुनित्वशोभितोऽपि, [मपिशब्दः] विरोधसूचकः, परिहारः पुनः, देवर्षि रिति नाम दानवर्षित्वं वितरणवर्षिस्वम् , तेन विभूषितः, दीनानाथादिदातेत्यर्थः ॥५१॥
... परागाभिधा विवृत्तिः-श्रीभोजराजस्य कमनीयकीर्तिप्रसारं प्राह-न स्वप्नेऽपीति । 'स्वप्ने अपि रिपुजनं न समाश्रिता, उन्नती म्लानि न गता, शुचितया साधुगुणद्विषां दुष्टात्मनां कर्णे न लग्ना, यस्य कीर्तिः, 'अहं निर्दोषा अपि ] अनेन दिक्षु गमिता, इति आत्मीयवार्ता ब्याकर्तुमिव तरसा सुरेन्द्रालयं व्रजति स्म' इत्यन्वयः । स्वप्नेऽपि स्वभावस्थायामपि, तादव्यासादशायामपीत्यर्थः, किमुत अवधानदशायाम् , रिपुजनं श्रीभोजराजारिजनम् , न समाश्रिता न जातु आश्रयत्वेन प्राप्ताऽस्मि, तेन भोजराजारेरकीर्तिमत्त्वमुक्तं भवति । किञ्च उन्नतौ खप्रसिद्धौ, म्लानिम् अतेजस्विताम् , शिथिलतामित्यर्थः, न गता नाश्रिताऽस्मि, अपि तु तीव्रतामेव श्रीभोजराजकीर्तेस्तीव्रतयैव परितः प्रसिद्धेः । अपि च शुचितया नैसर्गिकपवित्र
षां साधनां-सज्जनानाम.ये गुणाः, साधवः-समीचीना वा ये गुणाः, तद्वेषिणाम, दृष्टात्मनां दुर्जनानाम्, कणे श्रोत्र विवरे,न लग्नान प्रविष्टाऽस्ति, सजनैरेव तद्गुणप्रणयिभिस्तत्कीर्तिश्रवणात् । यस्य श्रीभोजराजस्य, कीर्तिः, निर्दोषा इत्थं निरपराधाऽपि, अहं कीर्तिः, अनेन श्रीभोजराजेन, दिक्षु दिग्दिगन्तरालेषु, गमिता केनचिदपराधेनेव परितो भ्रमिता; पर्यटनं कारितेत्यर्थः । इति ईदृशीम् , आत्मीयवार्ताम् खवृत्तम् , व्याकर्तुमिव कथयितुमिव, सुरेन्द्रालयं सुराधीश. . निकेतनम् , स्खलौकमित्यर्थः, तरसा क्षिप्रम् , ब्रजति स्म जगाम, आस्वलॉक प्रससारेत्यर्थः । . . . अत्रोत्प्रेक्षा-दीपकयोः संसृष्टिः । “शुचिग्रीष्मा-ऽग्नि-शृङ्गारेष्वाषाढ शुद्धमन्त्रिणि । ज्येष्ठे च पुंसि धवले शुद्धेऽनुपहते त्रिपु" ॥ इति मेदिनी, “वार्ता वातिङ्गणे वृत्तौ वार्ता कृष्याद्युदन्तयोः" इति विश्वः ॥ ४९ ॥ - परागाभिधा विवतिः-अथैवमुपाख्यायमानश्रीभोजराजप्रसादनमेव प्रकृतप्रबन्धप्रयोजन प्रतिजानीते-निःशेषवाडमयेति । 'निःशेषवाययविदः अपि जिनागमोक्ताः कथाः श्रोतुं समुपजातकुतूहलस्य, तस्य राज्ञः विनोदहेतोः, स्फुटाद्भुतरसा इयं कथा रचिता' इत्यन्वयः । निःशेषवाङमयविदोऽपि जिनागमातिरिक्ताशेषशास्त्रज्ञस्यापि, जिनागमोक्ताः जिनप्रोक्तागमनिबद्धाः, कथाः उपाख्यानानि, श्रोतुं सप्रणयमाकर्णयितुम् , समुपजातकुतूहलस्य समुद्भूतोत्सुक्यस्य, अवदातचरितस्य पवित्रचरित्रस्य, राज्ञः भूपतेः, तस्य श्रीभोजराजस्य, विनोदहेतोः प्रमोदहेतोः, स्फुटाद्भुतरसा स्फुटाः-- अभिव्यक्ताः, अद्भुताः-अनासादितपूर्वत्वेन आश्चर्यजनकाः, रसाः-शृङ्गारादयो यासामसौ, इयं कविहृदयस्थतया प्रत्यक्षा, कथा तिलकमलरीसंज्ञकगद्यकाव्यम्, रचिता प्रणीता, मयेति शेषः ।
कथागतस्फुटाद्भुतरसत्वस्य तद्विनोदहेतुत्वादत्र काव्यलिङ्गालङ्कारः । “अवदातः सिते पीते शुद्धे” इत्यमरः ॥ ५० ॥
परागाभिधा विवृतिः-अधात्मनः कथायामतिश्रदेयतामाधातुकामः कविः स्ववंशविशुद्धिमुद्भावयन्नादौ निजपितामहगतमाध्यात्मिकमह उपन्यस्यति-आसीदिति । 'अखिलमध्यदेशप्रकाशसाडाश्यनिवेशजन्मा [सः] द्विजन्मा आसीत् , यः दानवर्षित्व विभूषितोऽपि देवर्षिरिति प्रसिद्धिम् अलब्ध' इत्यन्वयः । अखिलमध्यदेशप्रकाशसांकाश्यनिवेशजन्मा
mmmmmmm